एतत् पृष्ठम् परिष्कृतम् अस्ति
७८ . वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ २ साधनपादे-
सम्यग्दर्शनमभावहेतुः । यथा चिकित्साशास्त्रं चतुर्म्यहम्-रोगो रोगहेतुरारोग्यं भैषज्यमिति, एवभिदमपि. शास्त्रं चतुव्यूहमेव । तद्यथा-संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति । तत्र दुःखब- हुल: संसारो हेयः । प्रधानपुरुषयोः संयोगो हेयहेतुः । संयो- गस्याऽऽत्यन्तिकी निवृत्तिहानम् । हानोपायः सम्यग्दर्शनम् । तत्र हातुः स्वरूपमुपादेयं वा हेयं वा न भवितुमर्हतीति हाने तस्योच्छेदवादप्रसङ्ग उपादाने च हेतुवादः । उभयप्रत्याख्याने शाश्वतवाद इत्येतत्सम्यग्दर्शनम् ।। १५॥ तदेतच्छास्त्रं चतुर्वृहमित्यभिधीयते- हेयं दुःखमनागतम् ॥१६॥
यथति । चत्वारो व्यूहाः संक्षिप्तावयवरचना यस्य तत्तथोक्तम् । ननु दुःखं हेयमुक्त्वा संसारं हेयमभिदधतः कुतो न विरोध इत्यत आह --तत्र दुःखबहुल इति । यत्कृत्वाऽविद्या संसारं करोति तदस्या अवान्तरव्यापार संसारहेतुमाह-प्रधानपुरुष- योरिति । मोक्षस्वरूपमाह-संयोगस्येति । मोक्षोपायमाह-हानोपाय इति । केचि- पश्यन्ति, हातुः स्वरूपोच्छेद एव मोक्षः । यथाऽऽहुः--"प्रदीपस्येव निर्वाणं विमोक्षस्तस्य चेतसः" इति ।
अन्ये तु सवासनक्लेशसमुच्छेदाद्विशुद्धविज्ञानात्पाद एवं मोक्ष इत्याचक्षते तान्प्र. स्याह--तत्रेति । तत्र हानं तावद्दषयति-हाने तस्येति । न हि प्रेक्षावान्कश्चिदा- मोच्छेदाय यतते । ननु दृश्यन्ते तीव्रगदोन्मूलितसकलसुखां दुःखमयीमिव मूर्तिमुद्रुहन्तः स्वाच्छेदाय यतमानाः । सत्यम् । केचिदेव ते, न त्वेवं संसारिणो विविधविचित्रदेवाद्या, नन्दभोगभागिनस्तेऽपि च मोक्षमाणा दृश्यन्ते तस्मादपुरुषार्थत्वप्रसक्तेर्न हातुः स्वरूपो. च्छेदो मोक्षोऽम्युपेयः । अस्तु तर्हि हातुः स्वरूपमुपादेयमित्यत आह–उपादाने च हेतुवादः । उपादाने हि कार्यत्वेनानित्यत्वे सति मोक्षत्वादेव च्यवेत । अमृतत्वं हि मोक्षः । नापि विशुद्धो विज्ञानसंतानो भवत्यमतः । संतानिभ्यो व्यतिरिक्तस्य संतानस्य वस्तुसतोऽभावात् । संतानिनां चानित्यत्वात् । तस्मात्तथा यतितव्यं यथा शाश्वतवादो भवति । तथाच पुरुषार्थताऽपवर्गस्येत्याह-उभयपत्याख्यान इति । तस्मात्स्वरूपा- वस्थानमेवाऽऽमनो मोक्ष इति । एतदेव सम्यग्दर्शनम् ॥ १५ ॥ तदेतच्छास्त्रं चतुर्ग्रहमित्यभिधीयते-हेयं दुःखमनागतम् । अनागतमित्यती-
१. ख. च. छ एवेति । २ च. उ. हेतुः । ३ ग. य. छ. 'यं हे । ४ ख. भवितव्यं । :