पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७६ . वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ २ साधनपादे- अथ का तापदुःखता, सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसा- धनाधीनस्तापानुभव इति तत्रास्ति द्वेषजः कमाशयः । सुखसा- धनानि च प्राथेयमानः कायेन वाचा पनसा च परिस्पन्दते तनः परमनुगृह्णात्यपहन्ति चेति परानुग्रहपीडाभ्यां धमाधमोवुप- चिनोति । स कर्माशयो लोभान्मोहाच भवतीत्येषा तापदुःखतो- च्यते । का पुनः संस्कारदुःखता, सुखानुभवात्सुखसंस्कारी. शयो दुःखानुभवादपि दुःखसंस्कारांशय इति । एवं कर्मभ्यो विपाकेऽनुभूयमाने सुख दुःखे वा पुनः कर्माशयमचय इति । एवमिदमनांदि दुःखस्रोतो विप्रसृतं योगिनमेव प्रतिकूला- स्मकत्वादुद्वेजयति । कस्मात् , अक्षिपात्रकल्पो हि विद्वानिति । यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्सेन दुःस्वयति न चान्येषु गात्रावयवेषु, एवमेतानि दुःखान्यक्षिपात्रकल्पं योगिनमेव क्लिनन्ति नेतरं प्रतिपत्तारम् । इतरं तु स्वकर्मोपहृतं दुःखमुपा- तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानमनादिवासनाविचि- त्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिवाविद्यया हातव्य एवा- हकारमयकारानुपातिनं जातं जातं बाह्याध्यात्मिकोभयनिमित्ता- विपर्वाणस्तापा अनुप्लवन्ते । तदेवमनादिना दुःखस्रोतसा व्युद्ध- मानमात्मानं भूतग्रामं च दृष्ट्वा योगी सर्वदुःखक्षयकारणं सम्य- ग्दर्शनं शरणं प्रपद्यत इति । तापदुःखतां पृच्छति--अथ केति । उत्तरं-सर्वस्येति । सर्वजनप्रसिद्धत्वेन तत्स्वरू- पप्रपञ्चमकृत्वा तापदुःखताऽपि परिणामदुःखतासमतया प्रपञ्चतेति । संस्कारदुःखतां पृच्छति--केति । उत्तरं-सुखेति । सुखानुभवो हि संस्कारमाधत्ते । स च सुखस्मरणं तच रागं स च मनःकायवचनचेष्टां सा च पुण्यापुण्ये ततो विपाकानुभवस्तहो वासनेत्ये- वमनादितेति । अत्र च सुखदुःखसंस्कारातिशयात्तत्स्मरणं तस्माच्च रागद्वेषौ ताभ्यां कर्माणि कर्मभ्यो विपाक इति योजना। __ तदेवं दुःखस्रोतः प्रसृतं योगिनमेव क्लिश्नाति नेतरं पृथग्जनमित्याह-एवमिदम- नादीति । इतरं तु त्रिपर्वाणस्तापा अनुप्लवन्त इति संबन्धः । आधिभौतिकाधिदैविकयो. स्तापयोबह्यत्वेनैकत्वं विवक्षितम् । चित्ते वृत्तिरस्या इत्यविद्या. चित्तवत्तिस्तया हातव्य एवं बुद्धीन्द्रियशरीरादौ दारापत्यादौ चाहंकारममकारानुपातिनमिति । तदत्र न सम्यग्दर्शनाद- न्यत्परित्राणमस्तीत्याह-तदेवमिति । १५. रु. रातिश" । २ घ... च. "पतिश। ३ म., . घ. ति नान्ये । म. घ.. 'दिदुः ।