पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७४ - वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ २ साधनपादे फला इति । यथा चेदं दुःखं प्रतिकूलात्मकमेवं विषयसुखका- लेऽपि दुःखमस्त्येव प्रतिकूलात्मकं योगिनः ॥ १४ ॥ कथं, तदुपंपाद्यते- परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरो- . धाच्च दुःखमेव सर्व विवेकिनः ॥ १५ ॥ सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः । तथा च द्वेष्टि दुःखसाधनानि मुह्यवि चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः । तथा चोक्तम्- हलादपरितापोदयानन्तरभाविनस्तदनुभवात्मनस्तथाऽप्यनुभाव्यतया भोग्यतया भोगकर्मत मा. त्रेण भोगफलत्वमिति मन्तव्यम् । नन्वपुण्यहेतुका जात्यायुर्भोगाः परितापफला भवन्तु हेयाः प्रतिकूलवेदनीयत्वात् । कस्मात्पुनः पुण्यहेतवस्यज्यन्ते मुखफला अनुकूलवेदनीयवात् । न चैषां प्रत्यात्मवेदनीयानुकूलता शक्या सहस्रेणाप्यनुमानागभैरपाकर्तुम् । नच ह्लादपरितापौ परस्पराविनाभूतौ यतो ह्लाद उपादीयमाने परितापेऽप्यवर्जनीयतयाऽऽपतेत् । तयोभिन्न- हेनुकत्वाद्भिन्नरूपत्वाच्चेत्यत आह -यथा चेदमिति ॥ १४ ॥ यद्यपि न पृथग्जनैः प्रतिकूलात्मतया विषयसुखकाले संवेद्यते दुःखं तथाऽपि संवे- द्यते योगिभिरिति प्रश्नपूर्वकं तदुपपादनाय सूत्रमवतारयति-कथं, तदुपप(पा)द्यत इति । परिणामेत्यादिसूत्रम् । परिणामश्च तापश्च संस्कारश्चैतान्येव दुःखानि तैरिति । परिणामदुःखता विषयसुखस्य दुःख तामाह---सर्वस्यायमिति । न खलु सुखं रागा. नुवेधमन्तरेण संभवति । न ह्यस्ति संभवो न तत्र तुष्यति तच्च तस्य सुखमिति । रागस्य च प्रवृत्तिहेतुत्वात्प्रवृत्तेश्च पुण्यापुण्योपचहेतुत्वात्तत्रास्ति रागजः कर्माशयोऽ. सतोऽनुपजननात् । तदा (था) च मुखं भुञ्जानस्तत्र सक्तोऽपि विच्छिन्नावस्थेन द्वेषेण द्वेष्टि दुःखसाधनानि, तानि परिहर्तुमशक्तो मुह्यति चेति द्वेषमोहकृतोऽप्यस्ति कर्माशयः । द्वेषवन्मोहस्यापि विपर्ययापरनाम्नः कर्माशयहेतुत्वमविरुद्वम् । ननु कथं रक्तो द्वेष्टि मुह्यति वा रागसमये द्वेषमोहयोरदर्शनादियत आह--तथा चोक्तं विच्छिन्नावस्था- न्क्केशानुपपादयद्भिरस्माभिः । तदनेन वाङ्मनसप्रवृत्तिजन्मनि पुण्यापुण्ये दर्शिते । रागा- दिजन्मनः कर्तव्यमिदमिति मानसस्य संकल्पस्य साभिलाषत्वेन वाचनिकत्वस्याप्यविशेषात् । १ क ख. च. उ. पप 1२ क. समि । ३ क. दयन्सूत्र । ४ न. म. यकारिता