पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

फलकम्:Rh७२ .=


नाशः कृष्णस्य । यत्रेदमुक्तम्---" द्वे द्वे ह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतोऽपहन्ति तदिच्छस्व कर्माणि सुकृतानि कर्तुमिहैव ते कर्म कवयो वेदयन्ते " प्रधानकर्मण्यावापगमनम् । यत्रेदमुक्तं --." स्यात्स्वल्पः संकर सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षायालन् ।

मादिति मन्तव्यम् । अत्रैव भगवानाम्नायमुदाहरति--यत्रेदमिति । द्वे द्वे ह वै कर्मणी कृष्णकृष्णशुक्ले अपहन्तीति संबन्धः । वीप्सया भूयिष्ठता सूचिता । कस्येत्यत आह-- पापकस्य पुंसः । कोऽसावपहन्तीत्यत आह--एको राशिः पुण्यकृतः । समूहस्य समूहिस्सध्यत्वात् । तदनेन शुक्लः कर्माशयस्तृतीय उक्तः । एतदुक्तं भवति-ईदृशो नामाय परपीडादिरहितसाधनसाध्यः शुक्लः कर्माशयो यदेकोऽपि सम्कृष्णान्कृष्णशुक्लांश्चा- स्यन्तविरोधिनः कर्माशयाम्भूयतोऽध्यपहन्ति । तत्तस्मादिश्छस्वेति च्छान्दसत्वादात्मनेपदम् । शोषं सुगमम् । अत्र च शुक्ल कर्मोदयस्यैव स कोऽपि महिमा यत इतरेषामभावो न तु स्वाध्यायादिजन्मनो दुःखात् । नहि दुःखमात्रविरोध्यधर्मोऽपि तु स्वकार्यदुःखविरोधी । नच स्वाध्यायादिजन्यं दुःखं तस्य कार्य तत्कार्यत्वे स्वाध्यायादिविधानानर्थक्यात्तद्वलादेव तदुत्पत्तेः । अनुत्पत्तौ वा कुम्भीपाकादपि विधीयेत । अविधाने तु तदनुत्पत्तेरिति सर्व चतुरस्त्रम् । द्वितीयां गतिं विभजते--प्रधाने फर्मणि ज्योतिष्टोमादिके तदङ्गस्य पशुहिंसादेरावापगमनम् । द्वे खलु हिंसादेः कार्य-प्रधानाङ्ग वेन विधानात्तदुपकारः, “न हिंस्यात्सर्वा भूतानि" [भार शा०२७८।५] इति हिंसायाः प्रतिपिद्धत्वादनर्थश्च । तत्र प्रधानाङ्गत्वे. मानुष्टानादप्रधानतैवेत्यतो न द्रागित्येव प्रधाननिरपेक्षा सती स्वफलमनर्थंप्रक्षोतुमर्हति, किं स्वारब्धविपाके प्रधाने साहायकमाचरन्ती व्यवतिष्ठते । प्रधानसाहायकमा चरन्त्याश्च स्वकार्ये बीजमात्रतयाऽवस्थानं प्रधाने कर्मण्यावापगमनम् । यत्रेदमुक्त पञ्चशिखेन स्वल्पः संकरो ज्योतिष्टोमादिजन्मनः प्रधानापूर्वस्य पशुहिंसादिजन्मनाऽनर्थहेतुनाऽपूर्वेण सपरिहारः शक्यो हि कियता प्रायश्चित्तेन परिहर्तुम् । अथ प्रमादतः प्रायश्चित्तमपि नाऽऽचरितं प्रधानकर्मविपाकसमये च विपच्येत तथाऽपि यावन्तमसावनर्थं प्रसृते तावान्सप्रत्यवमर्षो मृष्यन्ते हि पुण्यसंभारोपनीतसुखसुधामहाहृदावगाहिनः कुशलाः पापमात्रोपपादितां दुःखवाहिकणिकाम् । अतः कुशलस्य सुमहतः पुण्यस्य नापकर्षाय{{rh|left|center=क. ज, झ. तक।