पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रम्भी वाऽऽयु गहेतुत्वानन्दीश्वरवन्नहुषवद्वेति । क्लेशकर्मविपाकानुभवनिर्वतिताभिस्तु वासनाभिरनादिकालसंमूर्छितमिदं चित्तं
विचित्रीकृतमिव सर्वतो मत्स्यजालं ग्रन्थिभिरिवाऽऽततमित्येता'
अनेकभवपूर्विका वासनाः । यस्त्वयं कर्माशय एष एवैकभविक'
उक्त इति । ये संस्काराः स्मृतिहेतवस्ता वासनास्ताश्चानादि-
कालीना इति ।'

यस्त्वसावेकमविकः कर्माशयः स नियतविपाकश्चानियतवि- पाकश्च । तत्र दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य । कस्मात् । यो ह्यदृष्टजन्मवेदनीयोऽनियतविपाकस्तस्य त्रयी गतिः---कृतस्याविषकस्य नाशः, प्रधानकर्मण्यावापगमनं वा, नियतविपाकप्रधानकर्मणाडभिभूतस्य वा चिरमवस्थानमिति । तत्र कृतस्याविषकस्य नाशो यथा शुक्लकर्मोदयादिहैव मनुष्यजन्मनस्तीव्रसंवेगाधिमात्रोपायजन्मा पुण्यभेद आयुर्भोगहेतुत्वाति [वि ] पाकः नहुषस्य तु पाणिप्रहारविरोधिनाऽगस्त्यस्येन्द्रपदप्राप्तिहेतुनैव कर्मणाऽऽयुषो विहितत्वादपुण्यभेदो भोगमात्रहेतुः । ननु यथैकभविकः कर्माशयस्तथा किं क्लेशवासना भोगानुकुलाश्च कर्मविपाकानुभववासनास्तथा च मनुष्यस्तिर्यग्योनिमापन्नो न तज्जातीयोचितं भुञ्जीतेत्यत आह-क्लेशेति । संमूर्छितमेकलोलीभाषमापन्नम् । धर्माधर्माभ्यां व्यवच्छेत्तु वासनायाः स्वरूपमाह-ये संस्कारा इति । औसर्गिकमेकभविकत्वं क्वचिदपवदितुं भूमिकामारचयति - यस्त्वप्ताविति । तुशब्देन वासनातो व्यवच्छिनति । दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायमेकभविकत्वनियमो न त्वदृष्टजन्मवेदनीयस्य । किंभूतस्यानियतविपाकस्येति । हेतुं पृच्छति- कस्मादिति । हेतुमाह-यो हीति । एकां तावद्गतिमाह-कृतस्येति । द्वितीयामाह- प्रधानेति । तृतीयामाह-नियतेति । ___ तत्र प्रथमां विभजते-तत्र कृतस्येति । संन्यासिकर्मभ्योऽशुक्लाकृष्णेभ्योऽन्यानि त्रीण्येव कर्माणि कृष्णकृष्णशुक्लशुक्लानि । तदिह तपःस्वाध्यायादिसाध्यः शुक्लः कर्माशय उदित एसादत्तफलस्य कृष्णस्य नाशकोऽविशेषाच्च शबलस्यापि कृष्णभागयो- + क. ख. छ. पुस्तकेषु त्वात्रिविषाकारम्भी वा जन्मभोगायुहे नुन्धानहुषेति प्रामादिकः पाठः। १ ग. घ. ड. वि । २ क. व. घ. इ. 'विपाकस्य । ३ क. ख. प. विनाशः ।