पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०.
[ २ साधनपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-

}}


न चानेकं कर्मानेकस्य जन्मनः कारणम् । कस्मात्, तदनेकं जन्म युगपन्न संभवतीति क्रमेणैव वाच्यम् । तथा च पूर्वदोषानुषङ्गः ।' तस्माजन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माशयप्रचयो विचित्रः प्रधानोपसर्जनभावेनावस्थितः प्रायणाभिव्यक्त एकप्रघट्टकेन मरणं प्रसाध्य संमूर्छित एकमेव जन्म करोति । तच्च जन्म, तेनैव कर्मणा लब्धायुष्क भवति । तस्मिन्नायुषि तेनैव कर्मणा भोगः संपद्यत इति । असौ कर्माशयों जन्मायुर्भोगहेतुत्वात्रिविपाकोऽभिधीयत इति । अत एकभविकः कर्माशय उक्त इति । दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी भोगहेतुत्वाद्विविपाका- भावः । तृतीयं विकल्पं निराकरोति-न चानेकं कर्मानेकस्य जन्मनः कारणम् । तत्र हेतुमाह--तदनेकं जन्म युगपन्न संभवत्ययोगिन इति क्रमेण वाच्यम् । यदि हि कर्मसहस्रं युगपज्जन्मसहस्रं प्रसुवीत तत्र एवं कर्मसहस्रप्रक्षयादवशिष्टस्य. विपाककालः फलकमनियमश्च स्याताम् । न ह्यस्ति जन्मनां योगपद्यम् । एवमेव प्रथमपक्षोक्तं दूषणमित्यर्थः । तदेवं पक्षत्रये निराकृते पारिशेष्यादनेक. कर्मकस्य जन्मन: कारणमिति पक्षो व्यवतिष्ठत इत्याह-तस्माज्जन्मेति । जन्म च प्रायणं च जन्मप्रायणे तमोरन्तरं मध्यं तस्मि.. विचित्रसुखदुःख.फलोपहारेण विचित्रः, यदत्यन्तमुद्भतमनन्तरमेव फलं दास्यति तत्प्रधानं. यत्तु किंचिद्विलम्बन तदुपसर्जनं, प्रायणं. मरणं. तेनाभिव्यक्तः स्वकार्यारम्भणाभिमुखमुपनीत एकप्रघट्टकेन युगपत्समूर्छितो जन्मादिलक्षणे. कार्ये कर्तव्य एकलोलीभावमापन्न एकमेक जन्म करोति नानेकम् । तच्च जन्म मनुष्यादिभावस्तेनैव कर्मणा लब्धायुष्कं कालभेदान्नियतजीवितं भवति । तस्मिन्नायुषि तेनैव कर्मया भोगः सुखदुःखसाक्षात्कारः स्वसंबन्धितया संपद्यत इति । तस्मादसौ कर्माशयो जात्यायुर्भोगहेतुत्वात्रिविपाकोऽभिधीयते । औत्सर्गिकमुपसंहरति---अत एकभविकः कर्माशय उक्त इति । एको भव एकभवः । "पूर्वकाल" [पा० स० २। १ । ४९ } इत्यादिना समासः । एकभवोऽस्यास्तीति मन्वर्थीयष्ठन् । कचित्प.ठ ऐकभविक इति । तत्रैकभवशब्दाद्भवार्थे, ठकपत्ययः । एकजन्मावच्छिन्नमस्य भवनमित्यर्थः । तदेवमात्मनिकस्यैकमविकस्य त्रिविपाकत्वमुक्त्वा दृष्टजन्मवेदनीयस्यैहिकस्य कर्मणत्रिविपाकत्वं । व्यवच्छिनत्ति-दृष्टेति । नन्दीश्वरस्य खल्वष्टवर्षावच्छिन्नायुषो १ग. घ. कोण । २ गा. घ. ड.न.मिटित्वाम।