''''
मूलः । यथा तुषाबनद्धाः शालितण्हुला अदग्धवीजभावाः |
यति-सत्स्विति । अत्रैव दृष्टान्तमाह-यथा तुपेति । सतुषा अपि दग्धबीजभावाः स्वेदादिभिः । दार्ष्टान्तिके योजयति-तथेति । ननु न क्लेशाः शक्या अपनेतुं नहि सतामपनय इत्यत आह-न प्रसंख्यानदग्धक्लेशबीजभाव इति । विपाकस्य विध्यमाह- स चेति । विषच्यते साध्यते कर्मभिरिति विपाकः । कमैकल्यं ध्रुत्रं कृत्वा जन्मकत्वानेकत्वगोचरा प्रथमा विचारणा । द्वितीया तु कर्माने. कत्वं ध्रवं कृत्वा जन्मैकत्वानेकत्वगोचरा । तदेवं चत्वारो विकल्याः । तत्र प्रथमं विक- ल्पमपाकरोति-न तावदेकं कर्मकस्य जन्मनः कारणम् । पृच्छति---कस्मादिति । उत्तरम्-अनादिकालैकैकजन्मप्रचितस्यात एवासंख्येयस्यैकैकजन्मक्षपितादेकैकस्मा- कर्मणोऽवशिष्टस्य कर्मणः सांप्रतिकस्य च फलक्रमानिगमादनाश्वासो लोकस्य प्रसक्तः स चानिष्ट इति । एतदुक्तं भवति-कर्मक्षयस्य विरलत्वात्तदुत्पत्तिबहुल्या- चान्योन्यसंपीडिताः कर्माशया निरन्तरोत्पत्तयो निरुच्छासाः स्वविपाकं प्रतीति न फलक्रमः शक्योऽवधारयितुं प्रेक्षावतेत्यनाश्वासः पुण्यानुष्ठानं प्रति प्रसक्त इति । द्वितीयं विकल् निराकरोति--न चैकं कर्मानेकस्य जन्मनः कारणम् । पृच्छति----कस्मादिति । उत्तरम्-अनेकस्मिञ्जन्मन्याहितमेकैकमेव कर्मानेकस्य जन्मलक्षणस्य विपाकस्य निमि- तमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः स चाप्यनिष्टः कमवैफल्येन तदननु- नप्रसङ्गात् । यदैकजन्मसमुच्छेद्ये कर्मण्येकस्मिन्कलक्रमानियमादनाश्वासस्तदा क्षेत्र कथा बहुजन्मसमुच्छेचे कर्मण्येकस्मिंस्तत्र ह्यवसराभाषाद्विपाककालाभाव एवं सांप्रतिकस्थति