पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
right
center

६६ . वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [२ साधनपादे- यथा चायमत्यन्तमूढेषु दृश्यते क्लेशस्तथा विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढः । कस्मात् । समाना हि तयोः कुशलाकुशलयोर्मरणदुःखानुभवादियं वासनेति ॥ ९॥ तं प्रतिप्रसवहेयाः सूक्ष्माः ॥ १० ॥ ते पञ्च क्लेशा दग्धबीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति ॥ १० ॥ स्थितानां तु बीजभावोपगतानाम्-- . मारकबस्तुदर्शनाद्वेपमानः कम्पविशेषादनुमितमरणप्रत्यासत्तिस्ततो बिभ्यदुपलभ्यते । दु.खादुःखहेतोश्च भयं दृष्टम् । न चास्मिञ्जन्मन्यनेन मरणमनुभूतमनुमितं श्रुतं वा, प्रागेवास्य दुःखच तद्हेतुत्वं वाऽवगम्येत, तस्मात्तस्य तथाभूतस्य स्मृतिः परिशिष्यते । न चेयं संस्कारादृते । न चायं संस्कारोऽनुभवं विना । न चास्मिञ्जन्मन्यनुभव इति प्राग्भवीयः परिशिष्यत इत्यासीत्पूर्वजन्मसंबन्ध इति । तथापदं यथापदमाकाक्षतीत्यर्थप्राप्ते यथापदे सति यादृशो वाक्यार्थो भवति तादृशं दर्शयति-यथा चायमिति । अत्यन्तमूढेषु मन्दतमचैतन्येषु । विद्वत्तां दर्शयति- विज्ञातपूर्वापरान्तस्य । अन्तः कोटिः । पुरुषस्य हि पूर्वा कोटिः संसार उत्तरा च कैवल्यं सैव विज्ञाता श्रुतानुमानाभ्यां येन स तथोक्तः । सोऽयं मरणत्रास आ कृमेरा च विदुषो रूढः प्रसिद्ध इति । नन्वविदुषो भवतु मरणत्रासो विदुषस्तु न संभवति विद्ययोन्मूलितत्वात् । अनुन्मूलने वा स्यादरयन्तसत्त्वमित्याशयवान्पृच्छति-कस्मादिति । उत्तरमाह- समाना हीति । न संप्रज्ञातवान्विद्वानपि तु श्रुतानुमितविवेक इति भावः ॥ ९ ॥ तदेवं क्लेशा लक्षितास्तेषां च हेयानां प्रसुप्ततनुविच्छिन्नोदाररूपतया चतस्रोऽवस्था दर्शिताः । कस्मात्पुनः पञ्चमी क्लेशावस्था दग्धबीजभावतया सूक्ष्मा न सूत्रकारेण कथितेत्यत आह-ते प्रतिप्रसवहेयाः सूक्ष्माः । यत्किल पुरुषप्रयत्नगोचरस्तदुपदिश्यते । न च सूक्ष्मावस्थाहानं प्रयत्नगोचरः किंतु प्रतिप्रसवेन कार्यस्य चित्तस्यास्मितालक्षणकारणभावापत्त्या हातव्येति । व्याचष्टे-त इति । सुगमम् ॥ १० ॥ अथ क्रियायोगतनूकृतानां क्लेशानां किंविषयात्पुरुषप्रयत्नाद्धानमित्यत आह- स्थितानां तु बीजभावोपगतानामिति वन्ध्येभ्यो व्यवच्छिनत्ति । सूत्रं पठति- १ स. वा मरणासस्य स्या' । २ स. प्रसवविरुद्धः प्रतिप्रसवः पलय इत्यर्थः । प्रति' ।