पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० ११-१२ ] पातञ्जलयोगसूत्राणि । ध्यानहेयास्तद्वृत्तयः ॥ ११ ॥ क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन(ण) तनुकृताः सत्यः प्रसंख्यानेन ध्यानेन हातव्या यावत्सूक्ष्मीकृता यावद्द- ग्धबीजकल्पा इति । यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते. पश्चात्सूक्ष्मो यत्नेनोपायेन चापनीयते तथा स्वल्पप्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास्तु महाप्रतिपक्षा इति ॥ ११ ॥ क्लेशमूलः कर्माशयो दृष्टादृष्ट- जन्मवेदनीयः ॥ १२ ॥ तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधभवः । ध्यानहेयास्तवृत्तयः । व्याचष्टे-क्लेशानामिति । क्रियायोगतनुकृता अपि हि अतिप्रसवहेतुभावन कार्यतः स्वरूपतश्च शक्या उच्छेत्तुमिति स्थूला उक्ताः । पुरुषप्रयत्नस्य प्रसंख्यानगोचरस्यावधिमाह-यावदिति । सूक्ष्मीकृता इति विवृणोति-दग्धेति । अत्रैव दृष्टान्तमाह-यथा वस्त्राणामिति । यत्नेन क्षालनादिनोपायेन क्षारसंयोगादिना । स्थूलसूक्ष्ममात्रतया दृष्टान्तदार्ष्टान्तिकयोः साम्यं न पुनः प्रयत्नापनेयतया प्रतिप्रसवहेयेषु तदसंभवात् । स्वल्पः प्रतिपक्ष उच्छेदहेतुर्यासां. तास्तथोक्ताः । महान्प्रतिषक्ष उच्छेदहेतुर्यासां तास्तथोक्ताः । प्रतिप्रसवस्य चाधस्तात्प्रसंख्यानमित्यवरतया स्वल्पत्वमुक्तम् ॥ ११॥ स्यादेतज्जात्यायुर्भोगहेतवः पुरुषं क्लिश्चन्तः क्लेशाः कर्माशयश्च तथा, न त्वविद्यादयस्तत्कथमविद्यादयः क्लेशा इत्यत आह-क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । क्लेशा मूलं यस्योत्पादे च कार्यकरणे च स तथोक्तः । एतदुक्तं भवति- अविद्यादिमूलो हि कर्माशयो जात्यायुगहेतुरित्यविद्यादयोऽपि तद्धेतवोऽतः क्लेशा इति । व्याचष्टे-तत्रेति । आशेरते सांसारिकाः पुरुषा अस्मिन्नित्याशयः कर्मणामाशयो धर्माधर्मों। कामात्काम्यकर्मप्रवृत्तौ स्वर्गादिहेतुर्धर्मो भवति । एवं लोभात्परद्रव्यापहारादावधर्मः । मोहा- दधर्मे हिंसादौ धर्मबुद्धेः प्रवर्तमानस्याधर्म एव । न त्वस्ति मोहजो धर्मः । अस्ति क्रोधजो धर्मः । तद्यथा ध्रुवस्य जनकापमानजन्मनः क्रोधात्तजिगीषया चितेन कर्माशयेन पुण्येनान्तरिक्षलोकवासिनामुपरिस्थानम् । अधर्मस्तु क्रोधजो ब्रह्मवधादिजन्मा प्रसिद्ध १ ख. ग. छ. 'न हा । २ क. ख.. छ. न वाऽ । ३ ख. ज. पस। ४ ज. ज. रत इत्या १५ ख. स. शयौ ध।