पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

सू० ८-९] पातञ्जलयोगसूत्राणि । . . ६५

    सुखाभिज्ञस्य सुखानुस्मृतिपूर्व: सुखे तत्साधने या यो गर्ध-
  स्तृष्णा लोभः स राग इति ॥ ७ ॥
  
         दुःखानुशयी द्वेषः ॥ ८ ॥
         
    दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा यः प्रतिधोमन्युर्जिघांसा क्रोधः स द्वेषः ॥ ८॥
  
    स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥९॥
    
     सर्वस्य प्राणिन इयमात्माशीर्नित्या भवति मा न भूवं भूयासमिति । न चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः । एतया
   च पूर्वजन्मानुभवः प्रतीयते । स चायमभिनिवेशः क्लेशः स्वरसवाही कृमेरापि जातमात्रस्य प्रत्यक्षानुमानागमैरसंभावितो मरण-
   त्रास उच्छेददृष्टयात्मकः पूर्वजन्मानुभूतं मरणदुःखमनुमापयति ।
   
  सुखहेतुत्वमनुमायेच्छति । अनुशयिपदार्थमाह-य इति ॥ ७ ॥
  
    दुःखानुशयी द्वेषः । दुःखाभिज्ञस्येति पूर्ववद्वयाख्येयम् । अनुशयिपदार्थमाह-य:
   प्रतिघ इति । प्रतिहन्तीति प्रतिधः । एतदेव पर्यायेर्विवृणोति-मन्युरिति ॥ ८ ॥
   
  स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः । अभिनिवेशपदार्थ व्याचष्टे--
 सर्वस्य प्राणिन इति । इयमात्माशीरात्मनि प्रार्थना मा न भूवं माऽभावी भूयं भयास
 जीव्यासमिति । न चाननुभूतमरणधर्मकस्य, अमनुभूता मरणधर्मों येन जन्तुना न
 तस्यैषा भवत्यात्माशीरभिनिवेशो मरणभयम् । प्रसङ्गतो जन्मान्तरं प्रत्याचक्षाणं नास्तिकं
 निराकरोति-एतया चेति । प्रत्युदितस्य शरीरस्य ध्रियमाणत्वात्पूर्वजन्मानुभवः प्रतीयते ।
 निकायविशिष्टाभिरपूर्वाभिर्देहेन्द्रियबुद्धिवेदनाभिरभिसंबन्धो जन्म तस्यानुभवः प्राप्तिः सा
 प्रतीयते कथमित्यत आह-स चायमभिनिवेशः । अर्थोक्तावेवास्य क्लेशत्वमाह-क्लेश
 इति । अयमहितकर्मादिना जन्तूक्लिश्नति दुःखा करोतीति क्लेशः । वक्तुमुपक्रान्तं परि-
 समापयति-स्वरसवाहीति । स्वभावेन वासनारूपेण वहनशीलो ' न पुनरागन्तुकः ।
 कृमेरपि जातमात्रस्य दुःखबहुलस्य निकृष्टतम चैतन्यस्यानागन्तुक्त्वे हेतुमाह- प्रत्यक्षानुमा-
 नागमैः प्रत्युदिते जन्मन्यसंभावितोऽसंपादितो मरणत्रास उच्छेददृष्टयात्मक:
 पूर्वजन्मानुभूतं मरणदुःखमनुमापयति । अयमभिसंधिः-जातमात्र एव हि बालको
 ___________________________________________________________________
   १ क. ना नित्या भवति ! मा। २ . अ. कस्पान । ३ क. ज ना त ।