पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
[२ साधनपादे
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि


     दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६॥
  पुरुषो दृक्शक्तिबुद्धिर्दर्शनशक्तिरित्येतयोरेकस्वरूपापत्तिरि-

वास्मिता क्लेश उच्यते । भोक्तृभोग्यशक्त्योरत्यन्तविभक्तयोर- त्यन्तासंकीर्णयोरविभागप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति कुतो भोग इति । तथा चोक्तम्- 'बुद्धितः परं पुरुषमाकारशीलविद्यादिभिर्विभक्तम- पश्यन्कुर्यात्तत्राऽऽत्मबुद्धिं मोहेन । इति ॥ ६॥

             सुखानुशयी रागः ॥ ७॥
 अविद्यामुक्वा तस्याः कार्यमस्मितां रागादिवर्षिष्ठामाह-दृग्दर्शनशक्त्योरेकात्मतेवास्मिता । दृक्च दर्शनं च ते एव शक्तो तयोरात्मानात्मनोरनात्मन्यात्मज्ञानलक्षणाऽविद्यापादिता यैकात्मतेव न तु परमार्थत एकात्मता साऽस्मिता । दृग्दर्शनयोरिति वक्तव्ये

तयोर्भोक्तभोग्ययोर्योग्यतालक्षणं संबन्धं दर्शयितुं शक्तिग्रहणम् । सूत्रं विवृणोति---पुरुष इति । नन्वनयोरभेदप्रतीतेरभेद एव कस्मान्न भवति कुतश्चैकत्वं क्लिश्नाति पुरुषमित्यत आह-भोक्तभोग्येति । भाग्यशक्तिर्बुद्धिर्भोक्तृशक्तिः पुरुषस्तयोरत्यन्तविभक्तयोः कुतोऽ. त्यन्तविभक्तवमित्यत आह-अत्यन्तासंकीर्णयोः । अपरिणामित्वादिधर्मकः पुरुषः परिणामित्वादिधर्मिका बुद्धिरित्यसंकीर्णता । तदनेन प्रतीयमानोऽप्यभेदो न पारमार्थिक इत्युक्तम् । अविभागेति क्लेशत्वमुक्तम् । अन्वयं दर्शयित्वा व्यतिरेकमाह--स्वरूपेति । प्रतिलम्भो विवेकख्यातिः । परस्याप्येतत्संमतमित्याह--तदु (थाचो) क्तं पञ्चशिखेन बुद्धित इति । आकारः स्वरूपं सदा विशुद्धिः, शीलमौदासीन्यं, विद्या चैतन्यं, बुद्धिरविशुद्धाऽनुदासीना जडा चेति तत्राऽऽत्मबुद्धिरविद्या । मोहः पूर्वाविद्या जनितः संस्कारस्तमो वाऽविद्यायास्तामसत्वादिति ॥ ६॥

   विवेकदर्शने रागादीनां विनिवृत्तेरविद्यापादिताऽस्मिता रागादीनां निदानमित्यस्मितानन्तरं रागादील्लंक्षयति-सुखानुशयी रागः । अनभिज्ञस्य स्मृतेरभायात्सुखाभिज्ञस्येत्युक्तम् । स्मर्यमाणे सुखे रागः सुखानुस्मृतिपूर्वकः । अनुभूयमाने तु सुखे

नानुस्मृतिमपेक्षते । तत्साधने तु स्मर्यमाणे दृश्यमाने वा सुख नुस्मृतिपूर्व एव रागः । दृश्यमानमपि हि सुखसाधनं तज्जातीयस्य सुखहेतुतां स्मृत्वा तज्जातीयतया वाऽस्य

             १ क, वदिष्टामा। २ न. र्षिणीमा ।