पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० ५.] पातञ्जलयोगसूत्राणि ।

                    त्मत्वेनाभिप्रतीत्य तस्य संपदमनु नन्दत्यात्मसंपदं मन्वानस्तस्य
                    च्यापदमनु शोचत्यात्मव्यापदं मन्वानः स सर्वोऽप्रतिबद्धः"
                    इति । एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसंतानस्य कर्मा-
                    शयस्य च सविपाकस्येति ।
                      तस्याश्वामित्रागोष्पदवद्वस्तुसतत्त्वं विज्ञेयम् । यथा नामित्रो
                    मित्राभाषो न मित्रमानं किं तु तद्विरुद्धः सपत्नः । यथा
                    चाऽगोष्पदं न गोष्पदाभावो न गोष्पदमात्रं किंतु देश एव
                    ताभ्यामन्यद्वस्त्वन्तरम्, एवमविद्या ने प्रमाणं न प्रमाणाभावः
                    किंतु विद्याविपरीतं ज्ञानान्तरमविद्येति ॥५॥

शिखेन । व्यक्तं चेतनं पुत्रदारपश्वादि । अव्यक्तमचेतनं शय्यासनाशनादि । स सर्वोs- प्रतिबुद्धो मूढः । चत्वारि पदानि स्थानान्यस्या इनि चतुष्पदा । नन्वन्याऽपि दिङ्मोहा. लातचक्रादिविषयाऽनन्तपदाऽविद्या तस्किमुच्यते चतुष्पदेत्यत आह-~-मूलमस्येति । सन्तु नामान्या अप्यविद्याः संसारबीजं तु चतुष्पदैवेति ।

  नन्वविद्यति नन्समासः पूर्वपदार्थप्रधानो वा स्याद्यथाऽमक्षिकमिति । उत्तरपदार्थप्र.

धानो वा यथाऽराजपुरुष इति । अन्यपदार्थप्रधानो वा यथाऽमक्षिको देश इति । तत्र पूर्वपदार्थप्रधानत्वे विद्यायाः प्रसज्यप्रतिषेधो गम्येत । न चास्याः क्लेशादिकारणत्वम् । उत्तरपदार्थप्रधानत्वे वा विद्यैव कस्यचिदभावेन विशिष्टा गम्पेत । सा च क्लेशादिपरि- पन्थिनी न तु तद्बीजम् । न हि प्रधानोरघाती प्रधानगुणो युक्तः । तदनुपघाताय गुगे खन्याम्पकल्पना । तस्माद्विद्यास्वरूपानुपघाताय नमोऽन्यथाकरणमध्याहारो वा निषेध्य- स्येति । अन्यपदार्थप्रधानत्वे त्वविद्यमानविद्या बुद्धिर्वक्तव्या । न च सौ विद्याया अभाव. मात्रेण क्लेशादित्रीजम् । विवेकख्यातिपूर्वकनिरोधसंपन्नाया अपि तथात्वप्रसङ्गात् । तस्मा- सर्वथैवाविद्याया न क्लेशादिमूलतेत्यत आह-तस्याश्चेति । वस्तुनो भावो वस्तुंसतत्वं वस्तुत्वमिति यावत् । तदनेन न प्रमज्यप्रतिषेधः । नापि विद्यैवाविद्या, न तदभाववि. शिष्टा बुद्धिरपि तु विद्याविरुद्धं विपर्ययज्ञानमविद्येत्युक्तम् । लोकाधीनावधारणो हि शब्दा. र्थयोः संबन्धः । लोके चोत्तरपदार्थप्रधानस्यापि नत्र उत्तरपदाभिधेयोपमर्दकस्य तलक्षित. तद्विरुद्धपरतया तत्र तत्रोपलब्धरिहापि तद्विरुद्धे वृत्तिरिति भावः । दृष्टान्तं विभजते-- यथा नामित्र इति । न मित्राभावो नापि मित्रमात्रमित्यस्यानन्तरं वस्वन्तरं किंतु तद्धि- रुद्धः सपत्न इति वक्तव्यम् । तथाऽगोष्पदमिति न गोष्पदाभावो न गोष्पदमात्रं किंतु देश एव विपुलो गोष्पदविरुद्धस्ताभ्यामभावगोष्पदाभ्यामन्यद्वस्त्वन्तरम् । दान्तिके योज- यति एवमिति ॥ ५॥ १क. ख. च. छ. 'था चामो । २ ज. स. नापि । ३ ज. हो. न्य इत्यर्थाद।