पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू १]
पातञ्जलयोगसूत्राणि ।

क्षिप्त मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्त[१]भूमयः[२] । तत्र
विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते ।

 यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति[३] क्षिणोति च क्लेशाकर्मवन्धनानि श्लथयति निरोधमभिमुखं करोति स संप्र-


क्षिप्तमित्यादि । क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्तमस्थिरम् । मूढं तु तमःसमुद्रेकान्निद्रावृत्तिमत् । क्षिप्ताद्विशिष्टं विक्षिप्तम् । विशेषोऽस्थेमबहुलस्य कादाचिकः स्थेमा । सा चास्यास्थेमबहुलता सांसिद्धिकी वा वक्ष्यमाणव्याधिस्त्यानाद्यन्त रायजनिता वा । एकाग्रमेकतानम् । निरुद्धसकलवत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धम् । तत्र क्षिप्तमृढयोः सत्यपि परस्परापेक्षया वृत्तिनिरोधे पारम्पर्येणापि नि.श्रेयसहेतुभावाभावात्तदुपघातकत्वाच्च योगपक्षादृूरोत्सारितत्वमिति न तयोर्योगत्वं निषिद्धम् । विक्षिप्तस्य तु कादाचित्कसद्भूतविषयस्थेमशालिनः संभाव्येत योगत्वमिति निषेधति । तत्र विक्षिप्ते चेतसि समाधिः कादाचित्कसद्भूतविषय[४]स्य चित्तस्य स्थेमा न योगपक्षे वर्तते । कस्मात् । यतस्तद्विपक्षविक्षेपोपसर्जनीभूतः । विपक्षवर्गान्तर्गतस्य हि स्वरूपमेव दुर्लभं प्रागेव कार्य[५]करणं न खलु दहनान्तर्गतं बीजं त्रिचतुरक्षणवस्थितमुप्तमप्यङ्कुराय कल्पत इति भावः ।

 यदि विक्षेपोपसर्जनीभृतः समाधिर्न योगः कस्तर्हीत्यत आह-यस्त्वेकाग्रे चेतसीति । भूतमिति समारोपितमर्थं निवर्तयति । निद्रावृत्तिरपि स्वालम्बने तमसि भूते भवत्येकाप्रेत्यत उक्तम्--सदिति । शोभनं नितान्ताविर्भूतं सत्वं तमःसमुद्रेकस्त्वशोभनस्तस्य क्लेशहेतुत्वादिति । द्योतनं हि तत्वज्ञानमागमाद्वाऽनुमानाद्वा भवदपि परोक्षरूपतया न साक्षात्कारवतीमविद्यामन्छिनत्ति द्विचन्द्रदिङ्म हादिष्वनुच्छेदकत्वादत आह--प्रेति । प्र[६]कारो हि प्रकर्ष द्योतयन्साक्षात्कारं सूचयति । अविद्यामूलवादस्मितादीनां क्लेशानां, विद्यायाश्चाविद्योच्छेदरूपत्वाद्विद्योदये चाविद्यादिक्लेश समुच्छेदो विरोधित्वं त्कारणविनाशाचेत्ह--क्षिणोति चेति । अत एव कर्मरूपाणि बन्धनानि श्लथयति । कर्म चात्रापूर्वमभिमतकार्ये कारणोपचारात् । श्लथयति स्वकार्यादवसदयति । वक्ष्यति हि-- "सति मूले तद्विपाकः" (२११३] इति । किंच निरोधमभिमुखं करोत्यभिमुखी करति । स च संप्रज्ञातश्चतुष्प्रकार



  1. ख. °त्तस्य° भू ।
  2. ख. °यः । आत्मनश्चित्तवृत्तिभिरेव विहारं कुर्वन्ति । तासां रोधे विहारशून्यास्ताभिः सह वैराग्येण ब्रह्मणि लयं गच्छन्ति । नित्यं साक्षादात्मा केवढात्मसंस्कारशेषं
    समाधिना लयं कृत्वा ब्रह्मणि योगे योग: । स च योगिनां ह्रदियोगे भिन्नाभावः सार्वभोम इति । त° ।
  3. घ. ङ. ति प्राक्षि
  4. ज. यश्चित्तरथेम्ना न ।
  5. क. ज. यकार ।
  6. ख. झ.पशब्दो हि ।