पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ १ समाधिपादे--
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-

ज्ञातो योग इत्याख्यायते । स च वितर्कानुगतो विचारानुर्गत आनन्दानुगतोऽस्मितानुगत इत्युपरिष्टानिवेदयिष्यामः । सर्ववृ. त्तिनिरोधे त्वसंप्रज्ञातः समाधिः ॥१॥

 तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते--

योगश्चित्तवृत्तिनिरोधः ॥२॥

 सर्वशब्दाग्रहणात्संप्रज्ञातोऽपि योग इत्याख्यायते । चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात्त्रिगुणम् ।

 प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषय-


इत्याह- चेति । असंप्रज्ञातमाह-सर्ववृत्तीति । रजस्तमोमयी किल प्रमाणादि. वृत्तिः सात्त्विकी वृत्तिमुपादाय संप्रज्ञाते निरुद्धा । असंप्रज्ञाते तु सर्वासामेव निरोध इत्यर्थः । तदिह भूमिद्वये समाप्ता या मधुमत्यादयो भूमयस्ताः सर्वास्तासु विदितः सार्व- भौम इति सिद्धम् ॥ १॥ द्वितीयं सूत्रमवतारयति-तस्य लक्षणेति । तस्येति पूर्वसूत्रोपात्तं द्विविधं योगं परामृशति-योगश्चित्तवृत्तिनिरोधः । निरुध्यन्ते यस्मिन्प्रमाणादिवृत्तयोऽवस्थाविशेषे चित्तस्य सोऽवस्थाविशेषो योगः । ननु संप्रज्ञातस्य योगस्याव्यापकत्वादलक्षणमिदम् । अनिरुद्धा हि तत्र सात्विकी चित्तवृत्तिरित्यत आह ---सर्वशब्दाग्रहणादिति । यदि सर्व- चित्तवृत्तिनिरोध इत्युच्येत भवेदव्यापकं संप्रज्ञातस्य । क्लेशकर्मविपाकाशयपरिपन्थी चित्तवृत्तिनिरोधस्तु तमपि संगृह्णाति । तत्रापि राजसतामसचित्तवृत्तिनिरोधात्तस्य च तद्भावादित्यर्थः । कुतः पुनरेकस्य चित्तस्य क्षिप्तादिभूमिसंबन्धः किमर्थं चैवमवस्थस्य चित्तस्य वृत्तयो निरोद्धव्या इत्याशङ्कय प्रथमं तावदवस्थासंबन्धे हेतुमुपन्यस्यति-चित्तं हीति । प्रख्याशीलत्वात्सत्त्वगुणम् । प्रवृत्तिशीलत्वाद्रजोगुणम् । स्थितिशीलत्यात्तमोगुणम् । प्रख्या ग्रहणमुपलक्षणार्थम् । तेनान्येऽपि सात्त्विकाः प्रसादलाधवप्रीत्यादयः सूच्यन्ते । प्रवृत्त्या च परितापशोकादया राजसाः । प्रवृत्तिविरोधी तमोवृत्तिवर्गःस्थितिः । स्थितिग्रहणागौरवावर- णदैन्यादय उपलक्ष्यन्ते । एतदुक्तं भवति--एकमपि चित्तं त्रिगुणनिर्मिततया गुणानां च वैषम्येण परस्पर विमर्दवैचित्र्याद्विचित्रपरिणामं सदनेकावस्थमुपपद्यत इति । क्षिप्ताद्या एव चित्तस्य भूभौर्यथासंभवमयान्तरावयाभेदवतीरादर्शयति-प्रख्या- रूपं हीति । चित्तरूपेण परिणतं सत्त्वं चित्तसत्त्वम् । तदेवं प्रख्या- रूपतया सत्त्वप्राधान्यं चित्तस्य दर्शितम् । तत्र चित्ते सत्त्वास्किंचिद्ने रज- १ ग. घ. ड. च. 'टात्यवे । २ ख. वर्तते ।|center=१ ग. घ. ड. च. 'टात्यवे । २ ख. वर्तते ।