पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ १ समाधिपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-

योगानुशासनं शास्त्रमधिकृतं वेदितव्यम् । योगः
समाधिः । स च सार्वभौमश्चित्तस्य धर्मः ।


यमाणस्य प्रस्तूयमानस्य योगस्याभिधानात्सकलशास्त्रतात्पर्यार्थव्याख्यानेन शिष्यः सुखेनैव बोधितश्च प्रवर्तितश्च भवतीति । निःश्रेयसस्य हेतुः समाधिरिति हि श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम् । ननु किं सर्वसंदर्भगतोऽथशब्दोऽधिकारार्थः, तथा सति "अथातो ब्रह्मजिज्ञासा " [ब्र० सू० १।१।१ ] इत्यादावपि प्रसङ्ग इत्यत आह ---अयमिति । ननु-

  “हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः "

 इति योगियाज्ञवल्क्यस्मृतेः कथं पतञ्जलेर्योगशास्त्र[१]कर्तृत्वमित्याशङ्क्य सूत्रकारेणानुशासनमित्युक्तम् । शिष्टस्य शासनमनुशासनमित्यर्थः । यदाऽयमथशब्दोऽधिकारार्थस्तदैष वाक्यार्थः संपद्यत इत्याह---योगानुशासनं शास्त्रमधिकृतमिति । ननु व्युत्पाद्यमानतया योगोऽत्राधिकृतो न तु शास्त्रमित्यत आह-वेदितव्यमिति । सत्यं व्युत्पाद्यमानतया योगः प्रस्तुतः, स तु तद्विषयेण शास्त्रेण करणेन व्युत्पाद्यः । करणगोचरश्च व्युत्पादकस्य व्यापारो न कर्मगोचर इति कर्तृव्यापारविवक्षया योगविषयस्य शास्त्रस्याधिकृतत्वं वेदितव्यम् ।

शास्त्रव्यापारगोचरतया तु योग एयाधिकृत इति भावः । अधिकारार्थस्य चाथशब्दस्यान्यार्थं नीयमानोदकुम्भदर्शनमिव श्रवणं मङ्गलायापि कल्पत इति मन्तव्यम् । शब्दसंदेहनिमित्तमर्थसंदेहमपनयति-योगः समाधिरिति । “युज समाधौ " [ धा० पा० ४ ] इत्यस्माद्व्युत्पन्नः समाध्यर्थो न तु " युजिर्योगे" [ धा० पा० ७ ] इत्यस्मात्संयोगार्थ इत्यर्थः । ननु समाधिरपि वक्ष्यमाणस्याङ्गिनो योगस्याङ्गम् । न चाङ्गमेवाङ्गीत्यत आह- स च सार्वभौमः। चस्त्वर्थोऽङ्गादङ्गिनं भिनत्ति । भूमयोऽवस्था वक्ष्यमाणा मधुमती मधुप्रतीका विशोका संस्कारशेषास्ताश्चित्तस्य, तासु सर्वासु विदितः सार्वभौमश्चित्तवृत्तिनिरोधलक्षणो योगः । तदङ्गं तु समाधिर्नैवंभूतः । व्युत्पत्तिनिमित्तमात्राभिधानं चैतद्योगः समाधिरिति । अङ्गाङ्गिनोरभेदविवक्षामात्रेण प्रवृत्तिनिमित्तं तु योगशब्दस्य चितवृत्तिनिरोध एवेति परमार्थः । वृत्तयो ज्ञानान्यात्माश्रयाण्यतस्तन्निरोधोऽप्यात्माश्रय एवेति ये पश्यन्ति तन्निरासायाऽऽह---चित्तस्य धर्म इति । चित्तशब्देनान्तःकरणं बुद्धिमुपलक्षयति । न हि कूटस्थनित्या चितिशक्तिरपरिणामिनी ज्ञानधर्मा भवितुमर्हति बुद्धिस्तु भवेदिति भावः । स्यादेतत्सार्वभौमश्चेद्योगो हन्त भोः क्षितमूढविक्षिप्ता अपि चितभूमयः । अस्ति च परस्परापेक्षया वृत्तिनिरोधोऽप्यास्विति तत्रापि योगत्वप्रसङ्ग इत्याशङ्कय हेयोपादेयभूमीरुपन्यस्यति--



  1. ख. 'स्रवकृत्व’