पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

ॐ तत्सद्ब्रह्मणे नमः।

वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि

पातञ्जलयोगसूत्राणि ।


( तत्र समाधिपादः प्रथमः।)

( अथ व्यासभाष्यम् ।)

[१]यस्त्यक्त्वा रूपमाद्यं प्रभवति जगतोऽनेकधाऽनुग्रहाय
प्रक्षीणक्लेशराशिर्विषमविषधरोऽनेकवक्त्रः सुभोगी ।
सर्वज्ञानप्रसूतिर्भुजगपरिकरः प्रीतये यस्य नित्यं
देवोऽहीशः स वोऽव्यात्सितविमलतनुर्योगदो योगयुक्तः ॥१॥

(अथ पातञ्जलसूत्राणि।)

अथ योगानुशासनम् ॥१॥

अथेत्ययमधिकारार्थः।


(अथ वाचस्पतिकृता टीका।)

नमामि जगदुत्पत्तिहेतवे वृषकेतवे ।
क्लेशकर्मविपाकादिरहिताय हिताय च ॥१॥
नत्वा पतञ्जलिमृर्षिं वेदव्यासेन भाषिते ।
संक्षिप्तस्पष्टबह्वर्था भाष्ये व्याख्या वि[२]धास्यते ॥२॥

 इह हि भगवान्पतञ्जलि: प्रारिष्सितस्य शास्त्रस्य संक्षेपतस्तात्पर्यार्थं प्रेक्षावत्प्रवृत्यङ्गं श्रोतुश्च सुखावबोधार्थमाचिख्यासुरादायिदं सूत्रं रचयांचकार-अथ योगानुशासनम् । तत्र प्रथमावयवमथशब्दं व्याचष्टे-अथेत्ययमधिकारार्थः । अथैष ज्योतिरितिवत्, न त्वानन्तर्यार्थः । अनुशासनमिति हि शास्त्रमाहानुशिष्यतेऽनेनेति व्युत्पत्त्या । न चास्य शमदमाद्यनन्तरं प्रवृत्तिरपि तु तत्त्वज्ञानचिख्यापयिषानन्तरम् । जिज्ञासाज्ञानयोस्तु स्यात् । यथाऽऽम्नायते-"तस्माच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत्” [बृ०४।४।२३ ] [३]इति । शिष्यप्रश्नतपश्चरणरसायनाधुपयोगानन्तर्यस्य च संभवेऽपि नाभिधानं, शिष्यप्रतीतिप्रवृत्योरनुपयोगात्प्रामाणिकत्वे योगानुशासनस्य तदभावेऽप्युपेयत्वादप्रामाणिकत्वे च तद्भावेऽपि,हेयत्वात् । एतेन तत्वज्ञानचिख्यापयिषयोरानन्तर्याभिधानं परास्तम् । अधिकारार्थत्वे तु शास्त्रेणाधिक्रि-



  1. अयं श्लोको घ. पुस्तक नास्ति । वाचस्पतिमिश्ररेतच्छ्लोकस्य व्याख्या न कृता विज्ञानभिक्षुणा तु व्याख्यानं कृतम् ।
  2. क. विधीयते ।
  3. ख. ज, झ. इत्यादि।