पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० ५]
...... . ६१
पातञ्जलयोगसूत्राणि ।


किं तु तत्र रागो लब्धवृत्तिरन्यत्र तु भविष्यद्वृत्तिरिति । स हि तदा प्रसुप्ततनुविच्छिन्नो भवति । विषये यो लब्धवृत्तिः स उदारः। सर्व एवैते क्लेशवि- षयत्वं नातिक्रामन्ति । कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारो वा क्लेश इति, उच्यते--सत्यमेवैतत् , किंतु विशिष्टानामेवैतेषां विच्छिन्नादित्वम् । यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति । सर्व एवामी क्लेशा अविद्याभेदाः । कस्मात् , सर्वेष्वविद्यैवाभिप्लवते । यदविद्यया वस्त्वाकार्यते तदेवानुशेरते क्लेशा विपर्यासप्रत्ययकाल उपलभ्यन्ते क्षीयमाणां चाविद्यामनु क्षीयन्त इति ॥ ४ ॥ तत्राविद्यास्वरूपमुच्यते--

अनित्याशुचिदुःखानात्मसु नित्य-

शुचिसुखात्मख्यातिरविद्या ॥ ५ ॥ अनित्ये कार्ये नित्यख्यातिः । तद्यथा--ध्रुवा पृथिवी,


स हीति । भविष्यवृत्तिक्लेशमात्रपरामर्शि सर्वनाम न चैत्ररागपरामर्शि तस्य विच्छिन्नत्वादेवेति ।  उदारमाह-विषय इति । ननूदार एव पुरुषान्क्लिश्नातीति भवतु क्लेशोऽन्ये त्वङ्गिश्रन्तः कथं क्लेशा इत्यत आह -सर्व एवैत इति । क्लेशविषयत्वं क्लेशपदवाच्यत्वं नातिक्रामन्न्युदारतामापद्यमानाः । अत एव तेऽपि हेया इति भावः । क्लेशत्वेनेकतां मन्यमानश्वोदयति-कस्तर्हीति । क्लेशत्वेन समानत्वेऽपि यथोक्तावस्थाभेदाद्विशेष इति परिहरति- उच्यते सत्यमिति । स्यादेतत् । अविद्यातो भवन्तु क्लेशाः, तथाऽप्यविद्यानिवृत्ती कस्मान्निवर्तन्ते । न खलु पटः कुविन्दनिवृत्तौ निवर्तत इत्यत आह-सर्व एवेति । भेदा इव भेदास्तदविनिर्भागवर्तिन इति यावत् । पृच्छति-कस्मात् । उत्तरं-सर्वेष्विति । तदेव स्फुटयति-यदिति । आकार्यते समारोप्यते । शेषं सुगमम् ।

"प्रसुप्तास्तत्त्वलीनानां तन्ववस्थाश्च योगिनाम् ।
विच्छिन्नोदाररूपाश्च क्लेशा विषयसङ्गिनाम्" इति संग्रहः

॥ ४ ॥

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । अनित्यत्वोपयोगिविशेषणं-कार्य इति । केचित्किल भूतानि नित्यत्वेनाभिमन्यमानास्तद्रूपमभी-[१]

  1. १ क. ख. 'व्यक्तः सर्व 1