पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
[ २ साधनपादे-
वाचस्पतिकृतटीकासंवलितव्यासभा ष्यसमेतानि-


संमुखीभावः । प्रसंख्यानवतो दग्धक्लेशबीजस्य संमुखीभू- तेऽप्यालम्बने नासौ पुनरस्ति, दग्धबीजस्य कुतः प्ररोह इति । अतः क्षीणक्लेशः कुशलश्वरमदेह इत्युच्यते । तत्रैव सा दग्धबीजभाषा पञ्चमी क्लेशावस्था नान्यत्रेति । सतां क्लेशानां सदा बीजसामर्थ्यं दग्धमिति विषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोध इत्युक्ता प्रसुप्तिर्दग्धबीजानाममरोहश्च । तनुत्वमुच्यते-प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति । तथा विच्छिद्य विच्छिद्य तेन तेनाऽऽत्मना पुनः पुनः समुदाचरन्तीति विच्छिन्नाः । कथं, रागकाले क्रोधस्यादर्शनात् । न हि राग- काले क्रोधः समुदाचरति । रागश्च क्वचिदृश्यमानो न विषयान्तरे नास्ति । नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्तः हिणः प्रसुप्तक्लेशा न यात्तदवधिकालं प्राप्नुवन्ति । तत्प्राप्तौ तु पुनरावृत्ताः सन्तः क्लेशा- स्तेषु तेषु विषयेषु संमुखी भवन्ति । शक्तिमात्रेण प्रतिष्ठा येषां ते तथोक्ताः । तदनेनोत्पत्तिशक्तिरुक्ता । बीजभावोपगम इति च कार्यशक्तिरिति । ननु विवेकख्यातिमतोऽपि क्लेशाः कस्मान्न प्रसुप्ता इत्यत आह-प्रसंख्यानवत इति । चरमदेहो न तस्य देहान्तरमुत्पस्यते यदपेक्षयाऽस्य देहः पूर्व इत्यर्थः । नान्यत्र विदेहादिष्वित्यर्थः । ननु सतो नात्यन्तविनाश इति किमिति तदीययोगर्द्धिबलेन विषयसंमुखीभावे न क्लेशाः प्रबुध्यन्त इत्यत आह-सतामिति । सन्तु क्लेशा दग्धस्वेषां प्रसंख्यानाग्निना बीजभाव इत्यर्थः । क्लेशप्रतिपक्षः क्रियायोगस्तस्य भावनमनुष्ठानं तेनोपहतास्तनवः । अथवा सम्यग्ज्ञानमविद्यायाः प्रतिपक्षो भेददर्शनमस्मिताया माध्यरथ्यं रागद्वेषयोरनुबन्धबुद्धिनिवृत्तिरभिनिवेशस्येति । विच्छित्तिमाह-तथेति । क्लेशानामन्यतमेन समुदाचरताऽभिभवा- द्वाऽत्यन्तविषयसेवया वा विच्छिद्य विच्छिद्य तेन तेनाऽऽत्मना समुदाचरन्त्याविर्भवन्ति वाजीकरणाधुपयोगेन बाऽभिभावकदौर्बल्येन वेति । वीप्सया विच्छेदसमुदाचारयोः पौनःपुन्यं दर्शयता यथोक्तात्प्रसुप्ताद्भेद उक्तः । रागेण वा समुदाचरता विजातीयः क्रोधोऽभिभूयते सजातीयेन वा विषयान्तरवर्तिना रागेणैव विषयान्तरवर्ती रागोऽभिभूयत इत्याह-रामेति । भविष्यवृत्तेस्त्रयी गतिर्यथायोगं वेदितव्येत्याह- १ ख, ग, घ र. च. छ. °नः स ११ ख. पद।