५९ सू० ३-४ पातञ्जलयोगसूत्राणि। अथ के क्लेशाः कियन्तो वेति-
अविद्यास्मितारागद्वेषाभि- |
क्लेशा इति पञ्च विपर्यया इत्यर्थः । ते स्पन्दमाना गुणाधि-
कारं द्रढयन्ति, परिणाममवस्थापयन्ति, कार्यकारणस्रोत उन्नम-
यन्ति, परस्परानुग्रहतन्त्री भूत्वा कर्मविपाकं चाभिनिई-
रन्तीति ॥३॥
अविद्या क्षेत्रमुत्तरेषां प्रसुप्तत- |
अत्राविद्या क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां चतुर्विधेवि-
कल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम् । तत्र का प्रसुप्तिः । चेतसि
शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः । तस्य प्रबोध आलम्बने
__ पृच्छति- अथेति । अविद्येति सूत्रेण परिहारः । अविद्यास्मितारागद्वेषाभिनि-
बैशाः क्लेशाः । व्याचष्टे--पञ्च विपर्यया इति । अविद्या तावद्विपर्यय एव । अस्मि..
तादयोऽप्यविद्योपादानास्तदविनिर्भागवर्तिन इति विपर्ययाः । ततश्चाविद्यासमुच्छेदे तेषा-
मपि समुच्छेदो युक्त इति भावः । तेषामुच्छेत्तव्यताहेतुं संसारकारणत्वमाह-ते
स्पन्दमानाः समुदाचरन्तो गुणानामधिकारं द्रढयन्ति बलवन्तं कुर्वन्त्यत एव
परिणाममवस्थापयन्ति अव्यक्तमहदहंकारपरम्परया हि कार्यकारणस्रोत उन्नमयन्त्यु.
द्भावयन्ति । यदर्थं सर्वमेतत्कुर्वन्ति तदर्शयति-परस्परेति । कर्मणां विपाको जात्या-
युर्भोगलक्षणः पुरुषार्थस्तममी क्लेशा अभिनिहरन्ति निष्पादयन्ति । किं. प्रत्येकं. नेत्याह-
परस्परानुग्रहेति । कर्मभिः क्लेशाः क्लेशैश्च कर्माणीति ॥ ३ ॥
हेयानां क्लेशानामविद्यामूलत्वं दर्शयति----अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नो.
दाराणाम् । तत्र का प्रसुप्तिरिति । स्वोचितामर्थक्रियामकुर्वतां क्लेशानां सद्भावे न
प्रमाणमस्तीत्यभिप्रायः पृच्छतः । उत्तरं-चेतसीति । मा नामाक्रियां कर्पः क्लेशा
विदेहप्रकृतिलयानां बीजभावं प्राप्तास्तु ते शक्तिमात्रेण सन्ति क्षीर इव दधि । न हि
विवेकख्यातेरन्यदस्ति कारणं तद्वन्ध्यतायाम् । अतो विदेहप्रकृतिलया विवेकख्यातिविर-
१ म. के ते क्ले' । २ ग घ. शाः पञ्च क्के । ३ ग. घ. इ. ते स्यन्द । ४ ख. च.
कि । ५ ग. घ. अ. धकल्पितानां ।