स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा ।
ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसंन्यासो वा ॥१॥
स हि क्रियायोगः-
समाधिभावनार्थः क्लेश- |
स ह्यासेव्यमानः समाधि भावयति क्लेशांश्च प्रतनू करोति ।
प्रतनूकृतान्क्लेशान्प्रसंख्यानाग्निना दग्धबीजकल्पानप्रसवधर्मिण:
करिष्यतीति । तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषा-
न्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय
कल्पिष्यत इति ॥२॥
प्रणवादयः पुरुषसूक्तरुद्रमण्डलब्राह्मणादयो वैदिकाः, पौराणिकाश्च ब्रह्मपारायणा-
'दयः । परमगुरुर्भगवानीश्वरस्तस्मिन् ।
यत्रेदमुक्तम्--" कामतोऽकामतो वाऽपि यत्करोमि शुभाशुभम् ।
तत्सर्वं त्वयि संन्यस्तं त्वत्प्रयुक्तः करोम्यहम् " इति ।
तत्फलसंन्यासो वा फलानभिसंधानेन कार्यकरणम् ।
यत्रेदमुक्तम् --" कर्मण्यवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि" ||१॥ [भ०गी ०२४४७]
तस्य प्रयोजनाभिधानाय सूत्रमवतारयति--स हीति । सुत्रं समाधिभावनार्थः
क्लेशतनूकरणार्थश्च । ननु क्रियायोग एव चेक्लेशान्प्रतनू करोति कृतं तर्हि प्रसंख्याने-
नेत्यत आह---प्रतनूकृतानिति । क्रियायोगस्य प्रतनूकरणमात्रे व्यापारो न तु वन्ध्यत्वे
क्लेशानां प्रसंख्यानस्य तु तद्वन्ध्यवे। दग्धबीजकल्पानिति वन्ध्यत्वेन दग्धकलमबीजसारूप्यमु .
क्तम् । स्यादेतत् । प्रसंख्यानमेव चेत्क्लेशानप्रसवधर्मिणः करिष्यति, कृतमेषां प्रतनूकर-
णेनेत्यत आह-तेषामिति । क्लेशानामतानवे हि बलवद्विरोधिग्रस्ता सत्त्वपुरुषान्यता-
ख्यातिरुदेतुमेव नोत्सहते । प्रागेव तद्वन्ध्यभावं कर्तुं प्रविरलीकृतेषु तु क्लेशेषु दुर्बलेषु
तद्विरोधिन्यपि वैराग्याभ्यासाभ्यामुपजायते । उपजाता च तैरपरामृष्टाऽनभिभूता नैव याव.
त्परामश्यत इति । सत्त्वपुरुषान्यतामात्रख्याति: सूक्ष्मा प्रज्ञाऽतीन्द्रियतया सूक्ष्मोऽस्या विषय
इति सूक्ष्मा प्रज्ञा प्रतिप्रसवाय प्रविलयाय कल्पिष्यते । कुतः, समाप्ताधिकारा यतः समा-
तोऽधिकारः कार्यारम्भणं गुणानां यया हेतुभूतया सा तथोक्तेति ॥ २ ॥