एतत् पृष्ठम् परिष्कृतम् अस्ति
वाचस्पतिकृतटीकासंवलितव्यासभाष्य समेशानि-
पातञ्जलयोगसूत्राणि।
( तत्र द्वितीयः साधनपादः।) उद्दिष्टः समाहितचित्तस्य योगः । कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादित्येनदारभ्यते-- तपःस्वाध्यायेश्वरप्रणिधा- नानि कियायोगः ॥ ॥ नातपस्विनो योगः सिध्यति । अनादिकर्मलेशवासनाचित्रा मत्युपस्थित विषयजाला चाशुद्धिनान्तरेण तपः संभेदमापद्यत इति तपस उपादानस् । तञ्च चित्तप्रसादनमवाधमानमनेनाss- सेव्यमिति मन्यते ।
ननु प्रथमपादेनैव सोपायः सायान्तरप्रभेदः सफलो योग उक्तस्तल्किमपरमवशिष्यते यदर्थ द्वितीयः पादः पारभ्येतत्यत आह--उद्दिष्ट इति । अभ्यासवेर,ग्ये हि योगो- पायौ प्रथम पाद उक्तौ । न च तौ व्युस्थितचित्तस्य द्रागिरयेव संभवत इति द्वितीयपादो- पदेश्यानुपायानपेक्षते सत्त्वशुद्धयर्थम् । ततो हि विशुद्धसत्त्वः कृतरक्षासंविधानोऽभ्यासकै. राग्ये प्रत्यहं भावयति । समाहितत्वमविक्षिप्तस्त्रम् । कथं व्युत्थानचित्तोऽप्युपदेक्ष्यमाणैरु. पायर्युक्तः सन्योगी स्यादिस्यर्थः । तत्र वक्ष्यमाणेषु नियमेष्याकृष्य प्राथमिकं प्रत्युपयुक्ततर- तया प्रथमतः क्रियायोगमुपदिशति सूत्रकार:--तपस्वाध्यायेत्यादि । क्रियैव योगः क्रियायोगो योगसाधनत्वात् । अत एव विष्णुपुराणे खाण्डिक्यकेशिध्वजसंवादे---- योगयुक्प्रथमं योगी युञ्जमानोऽभिधीयते " [वि०पु०६।७।३३]
इन्युपक्रम्य तपःस्वाध्यायादयो दर्शिताः । व्यतिरेकमुखेन(ण) तपस उपायत्वमाह----
नातपस्विन इति । तपसोऽवान्तरन्यापारमुपायतोपयोगिनं दर्शयति--अनादीति । अनादिभ्यां कर्मक्लेशवासनाभ्या चित्राऽत एवं प्रत्युपस्थितमुपनतं विषयजालं यस्यां सा तथोक्ता । अशुद्धी रजस्तमःसमुद्रेको नान्तरेण तपः संभेदमापद्यते । सान्द्रस्य निता. न्तविरलता संभेदः । ननूपादीयमानमपि तपो धातुवैषम्यहेतुतया योगप्रतिपक्ष इति कथ तदुपाय इत्यत आह--सच्चेति । तात्रम्मात्रमेव तपश्चरणीयं न यावता धातुवैषम्यमा-
पद्यत इत्यर्थः ।
१ क योमं पति पतिपक्षापति क°।