पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
पातञ्जलयोगसूत्राणि ।
वाचस्पतिकृतटीकासंवलितच्यासभाष्यसमेतानि


  यस्मादवसित्ताधिकारं सह कैवल्यभागीयैः संस्कारैचित्तं निव-
   देने, तस्मिनिवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठोऽतः शुद्धः केवलो
    मुक्त इत्युच्यत्र इति ।। ५१ ॥
    
        इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमद्भयासभाष्ये
                प्रथमः समाधिपादः ॥१॥


विदेहप्रकृक्लियानां न निरोधभागितया साधिकारं चित्तम् । अपि तु क्लेशवासिततयेत्या- शयवानाह--यस्मादिति । शेषं सुगमम् ॥ ५१ ॥

योगस्योद्देशनिर्देशौ तदर्थ वृत्तिलक्षणम् ।
योगोपायाः प्रभेदाश्च पादेऽस्मिन्नुपवर्णिताः ॥ १ ॥

इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलयोगसूत्रभाष्यव्याख्यां

   प्रथमः समाधिपादः ॥ १॥