पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६.
[ १ समाधिपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि -

निर्वितर्कायाः समापत्तरस्याः सूत्रेण लक्षणं द्योत्यते-

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थ-
मात्रनिर्भासा निर्वितर्का ॥ ४३ ॥

 या शब्दसंकेतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्य-
स्वरूपोपरक्तो प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा
पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापनेव भवति सौ तदा निर्वितर्का
समापत्तिः ।
 तथा च व्याख्यातम्-तस्या एकबुद्ध्युपक्रमो ह्यर्थात्माऽणु-
प्रचयविशेषात्मा गवादिघंटादिवो लोकः।

 स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्म-


निर्वितर्काया इति । स्मृतिपरिशुद्धावित्यादि सूत्रम् । शब्दसंकेतश्च श्रुतं चानु-
मानं च तेषां ज्ञानमेव विकल्पस्तस्मात्स्मृतिस्तस्याः परिशुद्धिरपगमस्तस्याम् । तत्र
संकेतस्मृतिपरिशुद्धिर्हेतुः । श्रुतौनुमानस्मृतिपारशुद्धिश्च हेतुमती । अनुमानशब्दश्च कर्म•
साधनोऽनुमेयवाचकः । स्वमिवेतीवकारो भिन्नक्रमस्त्यावेतिपदानन्तरं द्रष्टव्यः ।
 विषयविप्रतिपत्ति निराकरोति-तस्या एकेति । एकां बुद्धिमुपक्रमत आरभत
इत्येकबुद्ध्युपक्रमः । तदनेन परमाणवो नानाभुतानां म निर्वितर्कविषया इत्युक्तं भवति ।
योग्यत्वेऽपि तेषां परमसूक्ष्माणां नानाभूतानां महत्वैकार्थसमवेतैकत्वनिर्भासप्रत्ययविष
यत्वायोगात् । अस्तु तर्हि परमार्थसत्सु परमाणुषु सांवृतः प्रतिभासधर्मः स्थौल्यमित्यत
आह–अर्थात्मेति । नासति बाधके स्थूलमनुभवसिद्धं शक्यापहवमिति भावः । तत्र
ये पश्यन्ति द्वषणुकादिक्रमेण गोघटादय उपजायन्त इति तान्प्रत्याह–अणुप्रचयेति ।
अणूनां प्रचयः स्थूलरूपपरिणामः, स च विशिष्यतेऽन्यस्मात्परिणामान्तरात्स एवाऽऽत्मा
स्वरूपं यस्य स तथोक्तः । गवादिर्भोगायतनम् । घटादिविषयः । तच्चैतदुभयमपि लोक्यत
इति लोकः ।
 नन्वेष भूतसूक्ष्मेभ्यो भिन्नोऽभिन्नो वा स्याद्भिनश्चेत्कथं तदाश्रयः कथं तदा-
कारः । न हि घटः पटादन्यस्तदाकारस्तदाश्रयो वा । अभिन्नश्चेत्तद्वदेव सूक्ष्मोऽसाधा-
रणश्च स्यादत आह- चेति । अयमभिप्रायः--नैकान्ततः परमाणुभ्यो भिन्नो

घटादिरभिन्नो वा, भिन्नत्वे गवाश्ववद्धर्मभिभावानुपपत्तेः । अभिन्नत्वे धर्मिरूपवदेव


 १. ख. 'का स्व'। २ ग. घ. ड. 'शारू' । ३ ग. प. उ. 'सानि' । ४ क. झ. अत्र । ५क. ख. स. "तादिज्ञान" । ६. ज. सांवृचः । ७ क. °थं वै त । ज. °५ चैत ।