पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० ४३]
४७
पातञ्जलयोगसूत्राणि ।


          भूतः फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रार्दुर्भवति । धर्मा-
          न्तरस्य कपालादेरुदये च तिरो भवति । स एष धर्मोऽवयवी-
          त्युच्यते । योऽसावेकश्च महांश्चणीयांश्च स्पर्शवांश्च क्रियाधर्मक-
          श्चानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते ।

यस्य पुनरवस्तुकः स प्रचयविशेषः


तदनुपपत्तेः । तस्मात्कथंचिद्भिन्नः कथंचिदभिन्नश्वाऽऽस्थेयस्तथा च सर्थमुपपद्यते । भूतसूक्ष्मा. णामितिषष्ठया् कथंचिद्भेदं सूचयति आत्मभूत इति चाभेदम् । फलेन व्यक्तेन तदनुभवल- क्षणेन तद्व्यवहारलक्षणेन च व्यक्तेन विप्रतिपन्नं प्रत्यनुमापितः। कारणाभेदे च कारणाका- रतोपपन्नेत्याह-स्वव्यञ्जकाञ्जन इति। स किं तदात्मभूतो धर्मो नित्यो नेत्याह--धर्मान्त- रस्य कपालादेरुदय इति । तस्यावयविनः परमाणुभ्यो व्यावृत्तं रूपमादर्शयति--स एष इति । परमाणुसाध्यायाः क्रियाया अन्या क्रिया मधूदकादिधारणलक्षणा तद्धर्मक इति । न केवलमनुभवादपि तु व्यवहारतोऽपि तन्निबन्धनत्वाल्लोकयात्राया इत्याह--- तेनेति ।

 स्यादेतदसति बाधकेऽनुभवोऽवयविनं व्यवस्थापयेत् । अस्ति च बाधकं यत्सत्तत्सर्वमन- वयवं यथा विज्ञानम् । सच्च गोघढःदीति स्वभावहेतुः । सत्त्वं हि विरुद्धधर्मसंसर्गरहितत्वेन व्याप्तं, तद्विरुद्धश्च विरुद्धधर्मसंसर्गः सावयव उपलभ्यमानो व्यापकविरुद्धौपलब्ध्या सत्त्वमपि निवर्तयति । अस्ति चावयविनि तद्देशत्वातद्देशत्वावृतत्वानावृतत्वरक्तत्वारक्तत्वचलवाचलत्व- लक्षणो विरुद्धधर्मसंसर्ग इत्यत आह—यस्य पुनरिति । अयमभिप्रायः-- अनुभवसिद्धं सत्त्वं हेतुः क्रियते यत्किल पांशुलपादुको हालिकोऽपि प्रतिपद्यते । अन्यद्वाऽनुभवसिद्धात् । तत्रान्यदसिद्धत्वादहेतुः । अनुभवसिद्धं तु धटादीनां सत्वमर्थक्रियाकारित्वरूपं न स्थूलाद. न्यत् । सोऽयं हेतुः स्थूलत्वमपाकुर्वन्निात्मानमेव व्याहन्ति । ननु न स्थूलत्वमेव सत्त्वमपि त्वसतो व्यावृत्तिः । अस्थौल्यव्यावृत्तिश्च स्थौल्यं, व्यावर्त्यभेदाच्च व्यावृत्तयो भिद्यन्ते । अतः स्थौल्याभावेऽपि न सत्वव्याहतिः । अन्यत्वात् । भवतु वा व्यावृत्तिभेदादवसायवि- षयभेदः । यत्पूर्वकास्त्ववसायास्तस्यानुभवस्याविकल्पस्य प्रमाणस्य को विषय इति निरू- पयतु भवानरूपपरमाणवो निरन्तरोत्पादा अगृहीतपरमसूक्ष्मतत्त्वा इति चेत्, हन्तैते गन्धरसस्पर्शपरमाणुभिरन्तरिता न निरन्तराः । तस्मादन्तरालग्रह एकघनवनप्रत्ययवत्पर- माप्वालम्बनः सन्नयं विकल्पो मिथ्येति तत्प्रभवविकल्या न पारम्पर्येणापि वस्तुप्रतिबद्धा इति कुतस्तदवसितस्य सत्त्वस्यानवयवत्वसाधकत्वम् । तस्मादविकल्पस्य प्रत्यक्षस्य प्रामा-


   १ क. ख. दुर्भातो भव'। २ ग. च. छ. °न्तरोद । घ, °न्तरोदयश्व ति।