पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० ४१]
४३
पातञ्जलयोगसूत्राणि ।

क्षीणवृत्तेरभिजातस्येव मणेर्य-

हीतृग्रहणग्राह्येषु तत्स्थतदा-

नता समापत्तिः ॥४१॥

क्षीणवृत्तेरिति प्रत्यस्तमितप्रत्यस्येत्यर्थः । अभिजातस्येव

मणेरिति दृष्टान्तोपादानम् । यथा स्फटिक उपाश्रयभेदात्तत्त-

द्रूपोपरक्त उपाश्रयरूपाकारेण निर्भासते तथा ग्राह्यालम्बनो.

परक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते ।

भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति ।

तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभास

भवति । तथा विश्वभेदोपरक्तं विश्वभेदसमापन विश्वरूपाभासं

भवति ।

तथा ग्रहणेष्वपीन्द्रियेष्वपि द्रष्टव्यम् । ग्रहणालम्बनोपरक्तं

ग्रहणसमापन्न ग्रहणस्वरूपाकारेण निर्भासते । तथा ग्रहीतपुरु-

पालम्बनोपरक्तं ग्रहीतृपुरुषसमापन्नं ग्रहीतृपुरुषस्वरूपाकारेण


क्षीणवृत्तेरित्यादि समापत्त्यन्तम् । तद्वयाचष्टे-क्षीणेति । अभ्यासथैराग्याभ्यां क्षीण-

राजसतामसप्रमाणादिवृत्तेश्चित्तस्य । तस्य व्याख्यानं-प्रत्यस्तमितप्रत्ययस्येति । तद-

नेन चित्तसत्तस्य स्वभावस्वच्छस्य रजस्तमोभ्यामनभिभव उक्तः। दृष्टान्तं स्पष्टयति-

यथोत । उपाश्रय उपाधिर्जपाकुसुमादिरूपरक्तस्तच्छायापन्नः । उपाश्रयस्य यदा-

त्मीयं रूपं लोहितनीलादि तदेवाऽऽकारस्तेन लक्षितो निर्भासते । दार्टान्तिके योज-

यति-तथा ग्राह्येति । ग्राह्यं च तदालम्बनं च तेनोपरक्तं तदनुविद्धं, तदनेन ग्रही-

तृग्रहणाभ्यां व्यवच्छिनात्त । आत्मीयमन्तःकरणरूपमपिधाय ग्राह्यसमापन्नं ग्राह्यता-

मिव प्राप्तमिति यावत् । अतो ग्राह्यस्वरूपाकारेण निभासते । ग्राह्योपरागमेव सूक्ष्मस्थूल-

ताभ्यां विभजते----भूतसूक्ष्मेति । विश्वभेदश्चेतनाचेतनस्वभावो गवादिर्घटादिश्च द्रष्टव्यः । तदनेन वितकेविचारानुगतौ समाधी दर्शितौ ।

___ तथा ग्रहणेष्वपीन्द्रियोविति । गृह्यन्त एभिरा इति ग्रहणानीन्द्रियाणि । एत-

देव स्पष्टयति-ग्रहणालम्बनेति । ग्रहणं चाऽऽलम्बनं च तदिति ग्रहणालम्बनं

तेनोपरक्तमनुविद्धमात्मीयमन्तःकरणरूपमपिधाय ग्रहणमिव बहिष्करणमिवाऽऽपन्न.

मिति । तदनेनाऽऽनन्दानुगतमुक्त्वाऽस्मितानुगतमाह---तथा ग्रहीतपुरुषेति । अस्मि-


१ क. ख. च. छ. 'ते। तथा भू । २ ख. च. छ. येषु द्र।