पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh|left=४०.|center=वाचस्पतिकतटीकासंवालितन्यासभाष्यसमेतानि|right=-१ समाविषाद-


स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधेप्रज्ञायां च द्वारी
भेवन्तीति । एतेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्ति-
रुत्पन्ना विषयवत्येव वेदितव्या । यद्यपि हि तत्तच्छास्त्रानुमाना-
चार्योपदेशैरवगतमर्थतत्त्वं सद्भूतमेव भवति, एतेषां यथाभूतार्थ-
प्रतिपादनसामर्थ्यात् , तथाऽपि यावदेकदेशोऽपि कश्चिन्न स्वक-
रणसंवेद्यो भवति तावत्सर्वं परोक्षमिवापवगोदिषु सूक्ष्मेष्वर्थेषु
न दृढां बुद्धिमुत्पादयति । तस्माच्छास्त्रानुमानाचार्योपदेशो-
पोदलनार्थमेवावश्यं कश्चिदर्थविशेषः प्रत्यक्षीकर्तव्यः । तत्र तदु-
पदिष्टार्थेकदेशप्रत्यक्षत्वे सति सर्व सूक्ष्मविषयमपि आऽपवर्गा-
च्छ्रद्धीयते । एतदर्थमेवेदं चित्तपरिकर्म निर्दिश्यते । अनिय-
तासु वृत्तिषु तद्विषयायां वशीकारसंज्ञायामुपजातायां समर्थ
स्यात्तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति । तथा च सति श्रद्धा-
वीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति ॥ ३५ ||

विशोका वा ज्योतिष्मती ॥ ३६॥

प्रवृत्तिरुत्पन्ना मनसः स्थितिनिवन्धनीत्यनुवर्तते । हृदयपुण्डरीके
 

ख्यातिविषयायां वा सिथतौ निबध्नन्ति । नन्वन्यविषया वृत्तिः कथमन्यत्र स्थिति निब-
ध्नातीत्यत आह-संशयं विधमन्ति अपसारयन्ति अत एव समाधिप्रज्ञायामिति ।
वृत्त्यन्तराणामप्पागमसिद्धानां विषयवैत्त्वमतिदिशति-एतेनेति । नन्वागमादिभिरवगते-
ष्वर्थेषु कुतः संशय इत्यत आह-यद्यपि हीति । श्रद्धामूलो हि योग उपदिष्टायैंकदेश-
प्रत्यक्षीकरणे च श्रद्धातिशयो जायते। तन्मूलाच ध्यानादयोऽस्याप्रत्यूहं भवन्तीत्यर्थः।।३५॥
विशोका वा ज्योतिष्मती । विगतशोका दुःखरहिता ज्योतिष्मती ज्योतिरस्या
अस्तीति ज्योतिष्मती प्रकाशरूपा। हृदयपुण्डरीक इति । उदरोरसोर्मध्ये यापाम-
धोमुखं तिष्ठत्यष्टदलं रेचकप्राणायामेन तदूर्धमुखं कृत्वा तत्र चित्तं धारयेत् । तन्मध्ये
सूर्यमण्डलमकारो जागरितस्थानं तस्योपरि चन्द्रमण्डलमुकरः स्वप्नस्थानम् ।
तस्योपरि वह्निमण्डलं मकारः सुषुप्तिस्सनम् । तस्योपरि परत्योमात्मकं
ब्रह्मनादं तुरीयस्थानमर्धमात्रमुदाहरन्ति ब्रह्मवादिनः । तत्र कर्णिकायामूर्धमुखी

सूर्यादिमण्डलमध्यगा ब्रह्मनाडो । ततोऽप्यूचं प्रवृत्ता सुषुम्ना नाम नाडी ।


१ ख. छ. भवन्ति । २ ग. प. उ. च. छ. 4 सुस । ३ क. ख. छ. कन्धिनी । १ अ, वतीत्वम ।