पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६

वाचस्पतिकृतटीकासंबलितव्यासभाष्यसमेतानि-[१ समाधिपादे-

विक्षेपप्रतिषेधार्थमेकतत्त्वावलम्वनं चित्तमभ्यसेत् । यस्य तु
प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वमेव चित्तमे-
काग्रं नास्त्येव विक्षिप्तम् । यदि पुनरिदं सर्वतः प्रत्याहृत्यैक-
स्मिन्नर्थे समाधीयते तदा भवत्येकानमित्यतो न प्रत्यर्थनियतम् ।

योऽपि सदृशप्रत्ययप्रवाहेन चित्तभेकाग्रं मन्यते तस्यैकाग्रता
यदि प्रवाहचित्तस्य धर्मस्तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात् ।
अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः, स सर्वः सदृशप्रत्ययवाही
वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वादेकान एवेति
विक्षिप्तचित्तानुपपत्तिः । तस्मादेकमनेकार्थमवस्थितं चित्तमिति |

तत्सर्वमेकाग्रमेव चित्तं नारित किंचिद्विक्षिप्तमिति तदुपदेशानां तदर्थानां च प्रवृत्तीनां वैयर्थ्यमित्याह-यस्य विति । यस्य मते प्रत्यर्थेऽर्यमाण एकस्मिन्ननेकस्मिन्या नियतं यावदावभासमुत्पन्नं तत्रैव समाप्तमनन्यगामि । अर्थान्तरं तावत्प्रथमं गृहीत्वाऽर्थान्तरमपि पश्चात्कस्मान्न गृह्णातीत्यत आह-क्षणिकं च क्षणस्याभेद्यावेन पूर्वपश्चाद्भावस्याप्यभाय इति भावः । अस्मन्मते त्वक्षणिकं चित्तं स्वविषय एकस्मिन्ननेकस्मिन्वाऽनवस्थितं प्रतिक्षणं तत्तद्विषयोपादानपरित्यागाभ्यां विषयानियतं विक्षिप्तमतो विक्षेपपरिणाममपनीय शक्यैका. प्रताऽऽधातुमिति तदुपदेशनवृत्त्योननिर्थकत्वमित्याह-यदि पुनरिदमिति । उपसंहरति- अतो नेति ।

चैनाशिकमुत्थापयति योऽपीति । मा भूदेकस्मिन्क्षणिक चित्त एकाग्रताधानप्रयत्नः। चित्तसंताने त्वनादावक्षणिके विक्षेपमपनीयैकाग्रताऽऽधास्यत इत्यर्थः । तदेतद्विकल्प्य दूषयति-तस्थेति । तस्य दर्शन एकाग्रता यदि प्रवाहचित्तस्य चित्तसंतानस्य वा धर्मः । तत्रैक क्रमवदुत्पादेषु प्रत्ययेष्वनुगतं नास्ति प्रवाहचित्तम् । कुतः, यद्यावदस्ति तस्य सर्वस्य क्षणिकत्वादक्षणिकस्य चासत्वाद्भवतां दर्शन इति भावः । द्वितीयं कल्पं गति- अथेति । सातस्य प्रवाहस्यांश: प्रत्ययः परमार्थसंस्तस्य प्रत्ययस्यैकामता प्रयत्नसाध्यो धर्मः । दूषयति-स सर्वः सांभूतप्रवाहापेक्षया सदृशमत्ययप्रवाही वा विसदृशप्रत्ययप्र- वाही वा । अतः परमार्थसत्तारूपेण प्रत्यर्थनियतत्वाद्यदर्थावभास उत्पनस्तत्र समाप्तत्वादे- काम एवेति विक्षिप्तचित्तानुपपत्तिः, यदपनयेनैकाग्रताऽऽधीयत इति । उपसंहरति- तस्मादिति । । ज. ऽयमान र' । २ ख. ज. झ. sऽनर्थक्यानि । ३ क. झ. वृत्तस्य । ४ क. अ. वृत्त ।