पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स० ३२]
३७
पातञ्जलयोगसूत्राणि ।

 यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जाये-

रनय कथमन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत् । अन्यप्रत्ययोपचि-

तस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत् । कथंचित्स-

माधीयमानमप्येतद्गोमयपायसीयन्यायमाक्षिपति ।


 किं च स्वात्मानुभवापयश्चित्तस्यान्यत्वे प्राप्नोति । कथं,


 इतोऽपि चित्तभेकमनेकार्थमवस्थितं चेत्याह –यदि चेति । यथा हि मैत्रेणाधीतस्य
शास्त्रस्य न चैत्रः स्मरति । यथा वा मैत्रेणोपचितस्य पुण्यस्य पापस्य वा फर्माशयस्य
फलं तदसंबन्धी चैत्रो न भुङ्क्ते, ए। प्रत्ययान्तरदृष्टस्य प्रत्ययान्तरं न स्मरेत् । प्रत्ययान्तरो.
पचितस्य वा कर्माशयस्य फलं च न प्रत्ययान्तरमुपभुञ्जीतेत्यर्थः । ननु नातिप्रसज्येते
कार्यकारणभावे सतीति विशेषणाच्छाद्धवैश्वानरीयेष्टयादावकर्तमातपितपुत्रादिगामिफलदर्श-
नान्मधुररसभावितानां वाऽऽम्रबीजादीनां परम्परया फलमाधुर्यनियमादित्यत आह-समा-
धीयमानमप्येतदिति । अयमभिसंधिः-कः खल्वेकसंतानवर्तिनां प्रत्ययानां संताना.
न्तरवर्तिभ्यः प्रत्ययेभ्यो विशेषो येनैकसंतानवर्तिना प्रत्ययेनानुभूतस्योपचितस्य च कर्मा-
शयस्य तत्संतानवयैव प्रत्ययः स्मर्ता भोक्ता च स्यान्नान्यसंतानवर्ती । न हि संतानो
नाम कश्चिदस्ति वस्तुसन् । य एनं संतानं संतानान्तरवर्तिभ्यो भिन्द्यात् । न च काल्प.
निको भेदः क्रियायामपपद्यते । न खल कल्पिताग्निभावो माणवकः पचति । न च कार्य-
कारणभावसंबन्धोऽपि वास्तवः । सहभुवोः सव्येतरविषाणयोरिवाभावादसहभुवोरपि प्रत्यु-
त्पन्नाश्रयत्वायोगात् । नह्यतीतानागतौ व्यासज्ज्य प्रत्युत्पन्नं वर्तितुमर्हतः । तस्मात्संतानेन
वा कार्यकारणभावेन वा स्वाभाविकैनानुहिताः परमार्थसन्तः प्रत्ययाः परस्परासंस्पर्शि-
त्वेन स्वसंतानवर्तिभ्यः परसंतानवर्तिभ्यो वा प्रत्ययान्तरेभ्यो न भिद्यन्ते । सोऽयं गोमयं
च पायसं चाधिकृत्य प्रवृत्तो न्यायो गोमयं पायसं गव्यत्वादुभयसिद्धपायसवदिति । तमा-
क्षिपति न्यायाभासत्वेन ततोऽप्यधिकत्वादिति । न चात्र कृतनाशाकृताभ्यागमं चोद्यम् ।
यतश्चित्तभेव कर्मणां कर्तृ तदेव तज्जनिताभ्यां सुखदुःखाभ्यां युज्यते । सुखदुःखे च
चितिच्छायापन्नं चित्तं भुक्त इति पुरुषे भोगाभिमानश्चितिचित्तयोरभेदग्रहादिति । स्वात्ययं
प्रतीत्य समुत्पन्नानां स्वभाव एवैषां तादृशो यत्त एव स्मरन्ति फलं चोपभुञ्जते न स्वन्ये ।
न च स्वभावा नियोगपर्थनुयोगावहन्ति एवं भवत मैवं भूतेति वा कस्मान्नैवमिति चेति ।

यः पूर्वोक्ते न परितुष्यति तं प्रत्याह-किं च स्वात्मेति । उदयव्ययधर्माणा-


 १ ख. छ. "त् । समा"। २ क. "सज्येत का" । झ. सज्यते का । ३ ख. ज. स. "तानिन। ४ क "पहताः ।