पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० ३१-३२]
३५
पातञ्जलयोगसूत्राणि ।

दुःखदौर्मनस्याङ्गभेजयत्वश्वास-
प्रश्वासा विक्षेपसहवः ॥३१॥

 दुःखमाध्यात्मिकमाधिभौतिकमाधिदैविकं च । येनाभि-
हताः प्राणिनस्तेदपघाताय प्रयतन्ते तद्दुःखम् । दौर्मनस्यमि-
च्छाविघासाचेतसः क्षोभः । यदङ्गान्येजयति कम्पयनि नद-
मेजयत्वम् । प्राणो यद्वाद्यं वायुमाचामति स श्वासः ।
यत्कौष्ठवं वायुं निःसारयति स प्रश्वासः। एत विक्षेपसह-
भवो विक्षिप्तचित्तस्यैते भवन्ति । समाहितचित्तस्यैते न
भवन्ति ॥ ३१॥

 अथैते विक्षेपाः समाधिप्रतिपक्षास्ताभ्यामेवाभ्यासवैरा-
ग्याभ्यां निरोद्धव्याः । तत्राभ्यासस्य विषयमुपसंहरन्निदमाइ-

  तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२॥


विवक्षयाऽत्र भेदेनोपन्यासः । अभायनमकरणं तत्राप्रयत्न इति यावत् । कायस्य गुरुत्वं
कफादिना, चित्तस्य गुरुत्वं तमसा । गर्धस्तृष्णा । मधुमत्यादयः समाधिभूमयः । लब्ध-
भमेर्यदि तावतैव सुस्थितंमन्यस्य समाधिभ्रेषः स्यात्ततस्तस्या अपि भुमेरपायः स्यात् ।
यस्मात्समाधिप्रतिलम्भे तदवस्थितं स्यात्तस्मात्तत्र प्रयतितव्यमिति ॥ ३०॥

 न केवलं नवान्तराया दुःखादयोऽप्यस्य तत्सहभुवो भवन्तीत्याह-दुःखेत्यादि ।
प्रतिकूलवेदनीयं दुःखमाध्यात्मिकं शारीरं व्याधित्रशान्मानसं च कामादिवशात् । आधि-
भौतिकं व्याघ्रादिजनितम् । आधिदैविकं ग्रहपीडादिजनितम् । तच्चेदं दुःखं प्राणिमात्रस्य
प्रतिकूलवेदनीयतया हेयमित्याह-येनाभिहता इति । अनिच्छतः प्रामो यद्वाह्यं वायु-
माचामति पिबति प्रवेशयतीति यावत्स श्वासः समाध्यङ्गरेचकविरोधी । अनिच्छतोऽपि
प्राणो यत्कौष्टयं वायुं निश्वारयति निःसारयति स प्रश्वासः समाध्यङ्गपूस्कविरोधी ॥ ३१ ॥

 उक्तार्थोपसंहारसूत्रमवतारयति-अथैत इति । अथोक्तार्थानन्तरमुपसंहरन्निदं सूत्रमा-
हेति संबन्धः । निरोद्धव्यत्वे हेतुरुक्तः-समाधिप्रतिपक्षा इति । यद्यपीश्वरमणिधानादि-
त्यभ्यासमात्रमुक्तं तथाऽपि वैराग्यमिह तत्सहकारितया ग्राह्यमित्याह-ताभ्यामुक्तलक्षणा-
भ्यामेवाभ्यासवैराग्याभ्यां निरोद्धव्याः। तत्र तयोरभ्यासवैराग्ययोर्मध्येऽभ्यासस्थान-
न्तरोक्तस्येति । तत्मतिषेधार्थमित्यादि । एकं तत्त्वमीश्वरः प्रकृतत्वादिति । वैनाशिकानां


    १ ग. य. ह. च. 'स्तदुप'।