पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
right


विज्ञातवाच्यवाचकत्वस्य योगिनः--- तज्जपस्तदर्थशावनम् ॥ २८ ॥ प्रणवस्य अपः प्रणवाभिधेयस्य चेश्वरस्य भावनम् । तदस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतश्चित्तमेकाग्रं संपद्यते । तथा चोक्तम्- " स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत् । स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते." इति ॥ २८ ॥ किं चास्य भवति--- ततः प्रत्यक्चेतनाधिगमोऽप्य. . न्तरायाभावश्च ॥ २९ ॥ ये तावदन्तराया व्याधिप्रभृतयस्ते तावदीश्वरमणिधानाश्न भवन्ति । स्वरूपदर्शनमप्यस्य भवति । यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः केवलोऽनुपसर्गस्तथाऽयमपि बुद्धेः प्रतिसंवेदी यः पुरुषस्तमधिगच्छति ॥२९॥ वाचकमाख्याय प्रणिधानमाह-~-तज्जपस्तदर्थभावनम् । व्याचष्ठे---- प्रणवस्येति । भावनं पुनः पुनश्चित्ते निवेशनम् । ततः किं सिध्यतीत्यत आह -प्रणवमिति । एकस्मिन्भगवत्यारमति चित्तम् । अत्रैव वैयासिकी गाथामुदाहरति--तथा चेति । तत ईश्वरः समाधितस्फललाभेन तमनुगृह्णाति ॥ २८ ॥ किंचापरमस्मात् -ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च । प्रतीपं विपरीतमञ्चति विजानातीति प्रत्यक्स चासौ चेतनश्चेति प्रत्यक्चेतनोऽविद्यावान्पुरुषः । तदनेनेश्वराच्छाश्वतिकसत्वोत्कर्षसंपन्नाद्विद्यावतो निवर्तयति । प्रतीचश्चेतनस्याधिगमो ज्ञानं स्वरूपतोऽस्य भवस्यन्तराया वक्ष्यमाणास्तदभावश्च । अस्य विवरणं-ये तावदिति । स्वमात्मा तस्य रूपम् । रूपग्रहणेनाविद्यासमारोपितान्धर्मान्निषेधति । नन्वीश्वरप्रणिधानमीश्वरविषयं कथभित्र प्रत्यक्चेतनं साक्षात्करोत्यतिप्रसङ्गादित्यत आह- यथैवेश्वर इति । शुद्धः कूटस्थनित्यतयोदयव्ययरहितः प्रसन्नः क्लेशवर्जितः केवलो धर्माधर्मपितः । अत एवानुपसर्गः । उपसर्गा जात्यायुर्भॊगाः । सादृश्यस्य किंचिद्भेदाविष्ठानत्यादीश्वराद्भिनत्ति-बुद्धेः प्रतिसंवेदीति । तदनेन प्रत्यग्ग्रहणं व्याख्यातम् । अत्यन्तविधर्मिणोरन्यतरार्थानुचिन्तनं न तदितरस्य साक्षात्काराय कल्पते । ५ १ ग घ.. १ग. प. उ. °ष इत्येवम' । २ ख. ज. स. नश्वेतसि नि