पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

फलकम्:=rhसू० २६] पातञ्जलयोगसूत्राणि ।

ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्ध- रिष्यामीति । तथा चोक्तम्-आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद्भगवान्परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवा- चेति ॥२५॥

स एषः- पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥ पूर्वे हि गुरवः कालेनावच्छिद्यन्ते । यत्रावच्छेदार्थेन कालो नोपावर्तते स एष पूर्वेषामपि गुरुः । यथाऽस्य सर्गस्याऽऽदौ प्रकर्षगत्या सिद्धस्तथाऽतिक्रान्तसर्गादिष्वपि प्रत्येतव्यः ॥२६॥ नाय भूतानुग्रहं द्वारमाह---ज्ञानधर्मोपदेशेनेति । ज्ञानं च धर्मश्च ज्ञानधर्मों तयोरुपदेशेन ज्ञानधर्मसमुच्यालुब्धविवेकख्यातिपरिपाकात्कल्पप्रलये ब्रह्मणो दिनावसाने यत्र सत्यलोकवर्ज जगदस्तमेति । महाप्रलये ससत्यलोकस्य ब्रह्मणोऽपि निधने संसारिणः स्वकारणगामिनोऽतस्तदा मरणदुःखभाजः, कल्पेत्युपलक्षणमन्यदाऽपि स्वार्जितकर्मपाकवशेन जन्ममरणादिभाजः पुरुषानुद्धरिष्यामीति कैवल्यं प्राप्य पुरुषा उद्धृता भवन्तीत्यर्थः । एतच्च करुणाप्रयुक्तस्य ज्ञानधर्मोपदेशनं कापिलानामपि सिद्धिमित्याह- तथा चोक्तं पञ्चशिखाचार्येण-आदिविद्वान्कपिल इति । आदिविद्वानिति पञ्चशिखाचार्यवचनमादिमुक्तस्वसंतानादिगुरुविषयं न त्वनादिमुक्तपरमगुरुविषयम् । आदितुक्तेनु कदाचिन्मुक्तेषु विद्वत्सु कपिलोऽस्माकमादिविद्वान्मुक्तः स एव च गुरुरिति । कपिलस्यापि जायमानस्य महेश्वरानुग्रहादेव ज्ञानप्राप्तिः श्रूयत इति । कपिलो नाम विष्णोरवतारविशेषः प्रसिद्धः । स्वयंभूस्तु हिरण्यगर्भः । तस्यापि सांख्ययोगप्राप्तिः श्रूयत इति । स एवेश्वर आदिविद्वान्कपिलो विष्णु स्वयंभूरिति भावः । स्वायंभुवानां त्वीश्वर इति भावः ॥२५॥ संप्रति भगवतो ब्रह्मादिभ्यो विशेषमाह-स एष इति । पातनिका-स एष इति । सूत्रम्--पूर्वेषामपि गुरुः कालेनानवच्छेदात् । व्याचष्टे---पूर्व हीति । कालस्तु शतवर्षादिरवच्छेदार्थेनावच्छेदेन प्रयोजनेन नोपावर्तते न वर्तते । प्रकर्षस्य गतिः प्राप्तिः । प्रत्येतव्य आगमात् ॥ २६॥ १ म. प. ड. बच्छेद्य' । २ ख. ज. णः पु। ३ ख. ज, झ. भरि' । ४ क. विष्णुः स।५क.वादीनामस्त्वीश्च ।ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्ध- रिष्यामीति । तथा चोक्तम्-आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद्भगवान्परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवा- चेति ॥२५॥