पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६४ भोजदेवविरचितवृत्तिसमेतानि- कैव . पा० ४ सू० ३३ ] मिष्यते तेषामुत्थानपराह्रत एव पक्षः । परिणामित्वे चिद्रूपताहानिश्चिद्रूपताभावे किमात्मन आत्मत्वम् । तस्मादात्मन आत्मत्रमिच्छता चिद्रूपत्वमेवाङ्गीकर्तव्यम् । तच्चाधिष्ठातृत्वमेव । केचित्कर्तृरूपमेवाऽऽत्मानमिच्छन्ति । तथा हि-विषयसानिध्ये या ज्ञानलक्षणा क्रिया समुत्पन्ना तस्या विषयसंवित्तिः फलं, तस्यां च फलरूपायां संवित्तौ स्वरूप प्रकाशरूपतया प्रतिभासते । विषयश्च ग्राह्यतया, आत्मा च ग्राहकतया, घटमहं जानामीत्याकारेण तस्याः समुत्पत्तेः । क्रियायाश्च कारण कर्तैव भवतीत्यतः कर्तृत्वं भोक्तृत्वं चाऽऽत्मनो रूपमिति । तदनुपपन्नं, यस्मात्तासां संवित्तीनां स किं कर्तृत्वं युगपत्प्रतिपद्यते क्रमेण वा । युगपत्कर्तृत्वे क्षणान्तरे तस्य कर्तृत्वं न स्यात् । अथ क्रमेण कर्तृत्वं तदेकरूपस्य न घटते । एकेन रूपेण चेत्तस्य कर्तृत्वं तदैकस्य रूपस्य सदैव संनिहितत्वात्सर्वं फलभेकरूपं स्यात् । अथ नानारूपतया तस्य कर्तृत्वं तदा परिणामित्वं, परिणामित्वाच्च न चिद्रूपत्वम् । अतश्चिद्रूपत्वमेवाऽऽत्मन इच्छेद्भिर्न साक्षात्कर्तृत्वमङ्गीकर्तव्यम् । यादृशमस्माभिः कर्तृत्वमात्मनः प्रतिपादितं कूटस्थस्य नित्यस्य चिद्रूपस्य तदेवोपपन्नम् । एतेन स्वप्रकाशस्याऽऽत्मनो विषयसंवित्तिद्वारेण ग्राहकत्वमभिव्यजत इति ये वदन्ति तेऽपि अनेनैव निराकृताः। केचिद्विमर्शात्मकत्वेनाऽऽस्मनश्चिन्मयत्वमिच्छन्ति । ते ह्याहुर्न विमर्शव्यतिरेकेण चिद्रूपत्वमात्मनो निरूपयितुं शक्यम् । जडाद्वैलक्षण्यमेव चिद्रूपत्वमुच्यते । तच्च विमर्शव्यतिरेकेण निरूप्यमाणं नान्यथाऽवतिष्ठते । तदनुपपन्नम् । इदमित्थमेवरूपमिति यो विचारः स विमर्श इत्युच्यते । स चास्मिताव्यतिरेकेण नोत्थानमेव लभते । तथाहि-~-आत्मन्युपजायमानो विमर्शोऽहमेवंभूत इत्यनेनाऽऽकारेण संवेद्यते । ततश्चाहंशब्दसंभिन्नस्याऽऽत्मलक्षणस्यार्थस्य तत्र स्फुरणान्न विकल्परूपतातिक्रमः । विकल्पश्चाध्यवसायात्मा बुद्धिधर्मो न चिद्धर्मः । कूटस्थनित्यत्वेन चितेः सदैकरूपत्वान्नाहंकारानुप्रवेशः । तदनेन सविमर्शत्वमात्मनः प्रतिपादयता बुद्धिरेवाऽऽत्मत्वेन भ्रान्त्या प्रतिपादिता न प्रकाशात्मनः परस्य पुरुषस्य स्वरूपमवगतमिति ।

  • अननैवेत्यधिकम् ।

१ क. हानेश्चि । २ ग, प.वाभा १३ ख. तथाऽयि' । ४ ग. वित्त । ५ ख. ग. °कत्येन घ°। ६ म. मीत्यनेन प्रकारेण । ७ ख. च । ८ क. तदैक । ९ क. ‘स्य स । १. ग. रूपण । ११ ग. नित्यान चि । १२ क. ग. त्यात्म । १३ ख. ग. °च्छता न सा ! १४ ख. ग. स्थान । १५ ग. "त्यचि । १६ ग. न्ति । तथाहि न वि । १७ क. जगदै'। १८ ख. डाकि पैल° । ग. डाकिल पैल' । १९ क. ग. 'ब्दभि । २० क.म तत्र वि । २१ क लस्वरू।