पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कैव० पा० ४ सू० ३३] पातञ्जलयोगसूत्राणि । इत्थं सर्वेष्वपि दर्शनेष्वधिष्ठातृत्वं विहाय नान्यदात्मनो रूपमुपपद्यते । अधिष्ठातृत्वं व चिद्रूपत्वम् । तच्च जडाद्वैलक्षण्यमेव । चिद्रूपतया यदधितिष्ठति तदेव भोग्यतां नयति । यञ्च चेतनाधिष्ठितं तदेव सकलैव्यापारयोग्यं भवति । एवं च सति कृतकृत्यत्वात्प्रधानस्य व्यापारनिवृत्तौ यदात्मनः कैवल्यमस्माभिरुक्तं तद्विहाय दर्शनान्तराणामपि नान्या गतिः । तस्मादिदमेव युक्तमुक्तं वृत्तिसारूप्यपरिहारेण स्वरूपे प्रतिष्ठा चितिशक्तेः कैवल्यम् । तदेवं सिद्धयन्तरेभ्यो विलक्षणां सर्वसिद्धिमूलभूतां समाधिसिद्धिमभिधाय जात्यन्तरपरिणामलक्षणस्य च सिद्धिविशेषस्य प्रकृत्यापूरणमेव कारणमित्युपपाद्य धर्मादीनां प्रतिबन्धकनिवृत्तिमात्र एव सामर्थ्यमिति प्रदर्श्य निर्माणचित्तानामस्मितामात्रादुद्भव इत्युक्त्वा तेषां च योगिचित्तमेवाधिष्ठापकमिति प्रदर्श्य योगिचित्तस्य चित्तान्तरवैलक्षण्यमभिधाय तत्कर्मणामलौकिकत्वं चोपपाद्य विपाकानुगुणानां च वासनानामभिव्यक्तिसामर्थ्यं कार्यकारणयोश्वैक्यप्रतिपादनेन व्यवहितानामपि वासनानामानन्तर्यमुपपाद्य तासामानन्त्येऽपि हेतुफलादिद्वारेण हानमुपदर्श्यातीतादिष्वध्वसु धर्माणां सद्भावमुपपाद्य विज्ञानवादं निराकृत्य साकारवादं च प्रतिष्ठाप्य पुरुषस्य ज्ञातृत्वमुक्त्वा चित्तद्वारेण सकलव्यवहारनिष्पत्तिमुपपाद्य पुरुषसत्वे प्रमाणमुपदर्श्य कैवल्यनिर्णयाय दशभिः सूत्रैः क्रमेणोपयोगिनोऽर्थानभिधाय शास्त्रान्तरेऽप्येतदेव कैवल्यमित्युपपाद्यं कैवल्यस्वरूपं निर्णीतमिति व्याकृतः कैवल्यपादः सर्वे यस्य वशाः प्रतापवसतेः पादान्तसेवानति- प्रभ्रश्यन्मुकुटेषु मूर्धसु दधत्याज्ञां धरित्रीभतः ॥ यद्वक्त्राम्बुजमाष्य गर्वमसमं वाग्देवताऽपि श्रिता स श्रीभोजपतिः फणाधिपतिकृत्सूत्रेषु वृत्ति व्यधात् ॥ १ ॥ इति श्रीधारेश्वरभोजदेवविरचितायां राजमार्तण्डाभिधायां पातञ्जलयोगसूत्रवृत्तौ कैवल्यपादश्चतुर्थः ॥ ४ ॥ समाप्तश्चायं ग्रन्थः। १ ख, ग, °लव्यपहार' । २ क. 'ति नित्य' । ३ ख. ग. ""रूपप। ४ ख. ग. शक्ति के । ५ ख. ग. षसि छौ प° । ६ ख. निर्वाणाय । ७ ख. ल्यमुपपन्नामि । ८. ता संश्रि"।