पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६३ [कैर०पा० ४सू , ३३] पातञ्जलयोगसूत्राणि । किंचित्कार्यं करोति तदवश्यं कुतश्चिद्भिन्नमभिन्नं वा वक्तव्यम् । अविद्यायाश्च संसारलक्षणकार्यकर्तृत्वमवश्यमङ्गीकर्तव्यम् । तस्मिन्सत्यपि यद्यनिर्वाच्यत्वमुच्यते तदा कस्यचिदपि वाच्यत्वं न स्यात् । ब्रह्मणोऽप्यवाच्यत्वप्रसंक्तिः । तस्मादधिष्ठातृतारूपव्यतिरेकेण नान्यदात्मनो रूपमुपपद्यते । अधिष्ठातृत्वं च चिद्रूपमेव तद्वयतिरिक्तस्य धर्मस्य कस्यचित्प्रमाणानुपपत्तेः । यैरपि नैयायिकादिभिरात्मा चेतनायोगाच्चेतन इत्युच्यते । चेतनाऽपि तस्य मनः- संयोगजा । तथा हि-इच्छाज्ञानप्रयत्नादयो गुणास्तस्य व्यवहारदशायामात्ममनःसंयोगादुत्पद्यन्ते । तैरेव च गुणैः स्वयं ज्ञाता कर्ता भोक्तेति व्यपदिश्यते । मोक्षदशायां तु मिथ्याज्ञाननिवृत्तौ तन्मूलानां दोषाणामपि निवृत्तेस्तेषां बुद्ध्यादीनां विशेषगुणानामत्यन्तोच्छित्तेः स्वरूपमात्रप्रतिष्ठत्वमात्मनोऽङ्गीकृतं तेषामयुक्तः पक्षः । यतस्तस्यां दशायां नित्यस्वव्यापकत्वादयो गुणा आकाशादीनामपि सन्ति अतस्तद्वैलक्षण्येनाऽऽत्मनश्चिद्रूपत्वमवश्य- मङ्गीकार्यम् । आत्मलक्षणजातियोग इति चेत् । न, सर्वस्यैव हि तज्जातियोगः संभवति । अतो जातिभ्यो वैलक्षण्यमात्मनोऽवश्यमङ्गीकर्तव्यम् । तेश्चाधिष्ठातृत्वं, तच्च चिद्रुपतयेव घटते नान्यथा । यैरपि मीमांसकैः कर्मकर्तृरूप आत्माऽङ्गी क्रियते तेषामपि न युक्तः पक्षः । तथा हि-अहंप्रत्ययग्राह्य आत्मेति तेषां प्रतिज्ञा । अहंप्रत्यये च कर्तृत्वं कर्मत्वं चाऽऽत्मन एव । न चैतद्विरुद्धत्वादुपपद्यते । कर्तृत्वं प्रमातृत्वं, कर्मत्वं च प्रमेयत्वम् । न चैतद्विरुद्धधर्माध्यासो युगपदेकस्य घटते । यद्विरुधर्माध्यस्तं न तदेकं, यथा भावाभावौ, विरुद्धे च कर्तृत्वकर्मत्वे । अथोच्यते-न कर्तृत्वकर्मत्वयोर्विरोधः किंतु कर्तृत्वकरणत्वयोः । केनैतदुक्तं विरुद्धधर्माध्यासस्य तुल्यत्वाकर्तत्वकरणत्वयोरेव विरोधो न कर्तृत्वकर्मत्वयोः । तस्मादहंप्रत्ययग्राह्यत्वं परिह्रत्याऽऽत्मनोऽधिष्ठातृत्वमेवोपपन्नम् । तच्च चेतनत्वमेव । यैरपि द्रव्यबोधपर्यायभेदेनाऽऽऽत्मनोऽव्यापकस्य शरीरपरिमाणस्य परिणामित्व- १ ख. ग. ‘णप्रपञ्चका । २ ख. सक्तिर्वा । त° । ३ ख. ग. तृरूपताव्य 1 ४ ख. ग. पत्वमे । ५ ग. धर्माधर्मविज्ञानानु । ६ ख. तनपाऽन्वित इष्यते । ७ ग. इष्यते । ८ म. हिंशा ९ ख. °च्छादेषभ । १. क. यो ये मु । ११ क.वृत्तिस्ते' । १२.क. °च्छित्तिः व । १३ व. त्रत्वं स्वप' । १४ ख. ग. तेषां न यु। १५ ख. या किमात्मनो नि । ग, या किमात्मन आत्माने' । १६ ग. त्मनः किंचिद्रूपम । १७ ख. °पम । १८ म. "त्वजा । १९ ख. 'त्, तदा स" । २. ख. ग. हि जाते । २१ ख: ति । ततो वै । २२ ग. जडेभ्यो । २३ क. तस्याधि । २४ क. ग. त्वं चि । २५ ग. पतेव । २६ ख. भ्यासादे । ग, ध्यास एक । २७ ख. पप । २८ ख. भदादात्म । ग. भेदात्म ।