पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२ . भोजदेवविरचितवृत्तिसमेतानि- कैव०पा०४२०३३] णसामर्थ्यं बुद्धिसत्वस्य च संक्रान्तचिच्छायाग्रहणसामर्थ्यं चिदवष्टब्धायाश्च बुद्धेर्योऽयं कर्तृत्वभोक्तृत्वाध्यवसायस्तत एव सर्वस्यानुसंधानपूर्वकस्य व्यवहारस्य निष्पत्तेः किमन्यैः फल्गुभिः कल्पनोजल्पैः । यदि पुनरेवंभूतमार्गव्यतिरेकेण पारमार्थिकमात्मनः कर्तत्वाद्यङ्गीक्रियेत तदाऽस्य परिणामित्वप्रसङ्गः । परिणामित्वाच्चानित्यत्वे तस्याऽऽत्मत्वमेव न स्यात् । ने ह्येकस्मिन्नेव समय एकेनैव रूपेण परस्परविरुद्धावस्थानुभवः संभवति । तथाहि- यस्यामवस्थायामात्मसमवेते सुखे समुत्पन्ने तस्यानुभवितत्वं न तस्याभवावस्थायां दुःखानुभवितृत्वम् । अतोऽवस्थानां नानात्वात्तदभिन्नस्यावस्थावतोऽपि नानात्वं, नानात्वेन च परिणामित्वान्नाऽऽत्मत्वम् । नापि नित्यत्वम् । अत एव शान्तब्रह्मवादिभिः सांख्यरात्मनः सदैव संसारदशायां मोक्षदशायां चैकरूपत्वमङ्गी क्रियते । ये तु वेदान्तवादिनश्चिदानन्दमयत्वमात्मनो मोक्षे मन्यन्ते तेषां न युक्तः पक्षः । तथाहि-आनन्दस्य सुरूपत्वात्सुखस्य च सदैव संवेद्यमानतदैव प्रतिभासात्संवेद्यमानत्वं च संवेदनव्यतिरेकेणानुपपन्नमिति संवेद्यसंवेदनयोरभ्युपगमादद्वैतहानिः । अथ सुखात्मकत्वमेव तस्योच्येत तद्विरुद्धधर्माध्यासादनुपपन्नम् । न हि संवेदनं संवेद्यं चैकं भवितुमर्हति । किंचाद्वैतवादिभिः कर्मात्मपरमात्मभेदेनाऽऽत्मा द्विविधः स्वीकृतः । इत्थं च तत्र येनैव रूपेण सुखदुःखभोक्तत्वं कर्मात्मनस्तेनैव रूपेण यदि परमात्मनः स्यात्तदा कर्मात्मवत्परमात्मनः परिणामित्वमविद्यास्वभावत्वं च स्यात् । अथ न तस्य साक्षाद्भोक्तृत्वं किंतु तदुपढौकितमुदासीनतयाऽधिष्ठातृत्वेन स्वी करोति तदाऽस्मद्दर्शनानुप्रवेशः । आनन्दरूपता च पूर्वमेव निराकृता । किं चाविद्यास्वभावत्वे निःस्वभावत्वात्कर्मात्मनः कः शास्त्राधिकारी । नतावन्नित्यनिर्मुक्तत्वात्परमात्मा,नापि अविद्यास्वभावत्वात्कर्मात्मा । ततश्च सकलशास्त्रवैयर्थ्यप्रसङ्गः । अविद्यामयत्वे च जगतोऽङ्गीक्रियमाणे कस्याविद्येति विचार्यते । न तावत्परमात्मनो नित्यमुक्तत्वाद्विद्यारूपत्वाच्च । कर्मात्मनोऽपि परमार्थतो निःस्वभावतया शशविषाणप्रख्यत्वे कथमविद्यासंबन्धः । अथोच्यते, एतदेवाविद्याया अविद्यात्वं यदविचाररमणीयत्वं नाम । यैव हि विचारेण दिनकरस्पृष्टनीहारवद्विलयमुपयाति साऽविद्येत्युच्यते । मैवं, यद्वस्तु १७ १ ख. 'क्रान्तेश्चिच्छा' । २ ख. 'नाजातः । य । ग. नाजालैः । य । ३ ख. ग. तभङ्गीव्य । ४ क. यथा । ५ क. 'ण न प । ६ क. ति । यथा य । ७ क. °स्थाना । ग. 'स्थायां ना । ८ ख. स्थातो । ९ क. 'नात्वाञ्च प० । १० क. चैक रूपम° 1 ११ क. मोक्षं । १२ क. °खस्वरू। १३ क. 'योईयोर । १४ क. 'हतीति । १५ स. ग. "विध इष्यते । त° । १६ ख. वाक । १७ ग. विचर्यताम् । १८ ख. नो निः। १९ ग. 'पि निः । २० ख. ग. नैवं।