पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[कैव०पा ०४सू०३३] पातञ्जलयोगसूत्राणि । योऽनुभूतेषु क्षणेषु पश्चात्संकलनबुद्धयैव यो गृह्यते स क्षणानां क्रम उच्यते । न ह्यननुभूतेषु क्षणेषु क्रमः परिज्ञातुं शक्यः ॥ ३२ ॥ इदानी फलभूतस्य कैवल्यस्यासाधारणं स्वरूपमाह- पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तेरिति ।। ३३ ।। समाप्तभोगापवर्गलक्षणपुरुषार्थानां गुणानां यः प्रतिप्रसवः प्रतिलोमस्य परिणामस्य समाप्तौ विकारानुद्भवः, यदि वा चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेऽवस्थानं तत्कैवल्यमुच्यते । न केवलमस्मद्दर्शने क्षेत्रज्ञः कैवल्यावस्थायामेवंविधश्चिद्रूयो यावद्दर्शनान्तरेष्वपि विमृष्यमाण एवरूपोऽवतिष्ठते । तथाहि--संसारदशायामात्मा कर्तृत्वभोक्तृत्वानुसंधातृत्वमयः प्रतीयतेऽन्यथा यद्ययमेकः क्षेत्रज्ञस्तथाविधो न स्यात्तदा ज्ञानक्षणानामेव पूर्वापरानुसंधातृशून्यानामात्मभावे नियतः कर्मफलसंबन्धो न स्यात्कृतहानाकृताभ्यागमप्रसङ्गश्च । यदि येनैव शास्त्रोपदिष्टमनुष्ठितं कर्म तस्यैव भोक्तत्वं भवेत्तदा हिताहितप्राप्तिपरिहाराय सर्वस्य प्रवृत्तिर्घटेत सर्वस्यैव व्यवहारस्य हानोपादानलक्षणस्यानुसंधानेनैव व्याप्तत्वाज्ज्ञानक्षणानां परस्परभेदेनानुसंधानशून्यवात्तदनुसंधानाभावे कस्यचिदपि व्यवहारस्वःनुपत्तेः कर्ता भोक्ताऽनुसंधाता यः स आत्मेति व्यवस्थाप्यते । मोक्षदशायां तु सकलग्राह्यग्राहकलक्षणव्यवहाराभावाश्चैतन्यमात्रमेव तस्यावशिष्यते । तचैतन्यं चितिमात्रत्वे नैवोपपद्यते न पुनरात्मसंवेदनेन । यस्माद्विषयग्रहणसमर्थत्वमेव चिते रूपं नाऽऽमग्राहकत्वम् । तथाहि-अर्थश्चित्या गृह्यमाणोऽयमिति गृह्यते स्वरूपं गृह्यमाणमहमिति न पुनर्युगपद्बर्हिमुखतान्तर्मुखतालक्षणव्यापारद्वयं परस्परविरुद्धं कर्तुं शक्यम् । अत एकस्मिन्समये व्यापारद्वयस्य कर्तुमशक्यत्वाच्चिद्रूपतैवावशिष्यते । अतो मोक्षावस्थायां निवृत्ताधिकारेषु गुणेषु चिन्मात्ररूप एवाऽऽत्माऽवतिष्ठत इत्येवं युक्तम् । संसारदशायां त्वेवंभूतस्यैव कर्तृभोक्तृत्वमनुसंधातृत्वं च सर्वमुपपद्यते । तथाहि-योऽयं प्रकृत्या सहानादिर्नैसर्गिकोऽस्य भोग्यभोक्तृत्वलक्षणः संबन्धोऽविवेकख्यातिमलस्तस्मिन्सति पुरुषार्थकर्तव्यतारूपशक्तिद्वयसद्भावे या महदादिभावेन परिणतिस्तस्यां संयोगे सति यदात्मनोऽधिष्ठातृत्वं चिच्छायासमर्प- १०. ग. 'लना । २ क. शतिर ।३ क. वः क्षणेषु । य°। ४ क. ख. चिच्छते ५ म. वेणाव । ६ ख. ग. कैव । ७ ख. ग. ते । पुनर्बुद्धिसत्वानधिगमे सति स्वरूपमात्रे त्यवस्थानं न । ८ ख. °स्वरूपी । ग. भूतो दर्श । ९ ख. ग. 'रूप एवाव । १० ग. °धानम् । ११ ग, स्यात् । १२ ख. 'धानाभावे । १३ ख. ग. तनाशक । १४ क. °व माप्त । १५ व. ग. वाई । १६ ख. वैन क. १७ ख. पत्तिरित की। १८ क. र्थनमें । १९ क. स. पतयैवा" । २० व. कर्तृत्वादि च।