पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६. भोजदेवविरचितवृत्तिसमेतानि-- [कैव०पा०४सू०२८-३२] एवं प्रत्ययान्तरानुदयेन स्थिरीभूते समाधी यादृश (शाs) स्य योगिनः समाधिप्रकर्षप्राप्तिर्भवति तथाविधमुपायमाह- प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेक- ख्यातेधर्ममेघः समाधिः ॥ २८ ॥ प्रसंख्यानं यावतां तत्त्वानां यथाक्रमं व्यवस्थितानां परस्परविलक्षणरंवरूपविभावनं तस्मिन्सत्यप्यकुशीदस्य फलमलिप्सोः प्रत्ययान्तराणामनदये सर्वप्रकार विवेकख्यातेः परिशेषार्द्धममेघः समाधिर्भवति । प्रकृष्टमशुक्लकृष्णं धर्मं परमपुरुषार्थसाधकं मेहति सिञ्चतीति धर्ममेधः । अनेन प्रकृष्टधर्मस्यैव ज्ञानहेतुत्वमित्युपपादितं भवति ॥ २८ ॥ तस्माद्धर्भमेघात्किं भवतीयत आह- ततः क्लेशकर्मनिवृत्तिः ॥ २९॥ क्लेशानामविद्यादीनामभिनिवेशान्तानां कर्मणां च शुक्लादिभेदेन त्रिविधानां ज्ञानोदयात्पूर्वपूर्वकारणनिवृत्या निवृत्तिर्भवति ॥ २९ ॥ तेषु निवृत्तेषु किं भवतीत्यत आह- तदा सर्वावरणमलाषेतस्य ज्ञान- स्थाऽऽनन्त्याज्ज्ञेयमल्पम् ॥३०॥ आव्रीयते चित्तमेभिरित्यावरणानि क्लेशास्त एव मलास्तेभ्योऽपेतस्य तद्विरहितस्य ज्ञानस्य शरद्गगननिभस्याऽऽनन्यादनवच्छेदाज्ज्ञेयमल्पं गणनास्पदं न भवत्यश्लेशेनैव सर्वं ज्ञेयं जानातीत्यर्थः ॥ ३०॥ ततः किमित्यत आह- ततः कृतार्थानां परिणामक्रम- समाभिर्गुणानाम् ॥ ३१ ॥ कृतो निष्पादितो भोगापवर्गलक्षणः पुरुषार्थः प्रयोजनं यैस्ते कृतार्था गुणाः सत्त्वरजस्तमांसि तेषां परिणाम आ पुरुषार्थसमाप्तेरानुलोम्येन प्रातिलोम्येन चाङ्गाङ्गिभावः स्थितिलक्षणस्तस्य योऽसौ क्रमो वक्ष्यमाणस्तस्य परिसमाप्तिनिर्ष्ठा न पुनरुद्भव इत्यर्थः॥३१॥ क्रमस्योक्तस्य लक्षणमाह- क्षणप्रतियोगी परिणामापरा- न्तनिर्ग्राह्यः क्रमः ॥ ३२ ॥ क्षणोऽल्पीयान्कालस्तस्य योऽसौ प्रतियोगी क्षणविलक्षणः परिणामापरान्तनिर्ग्ना- १ ख. 'दयात्सव । २ . त.त्याह । ३ ग. पूर्वका । ४ क. तीत्याह । ५ क. ६ भ। ६ क. ख. मित्य ह'। ७ क. 'णामोऽप° 1 ८ ख. ग. योग्येकक्ष। क, ग. गानोऽ।