पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

E ५६ . भोजदेवविरचितवृत्तिसमेतानि- कैव०पा०४२०२२-- क्रान्ता च यदा चिच्छक्तिबुद्धिवृत्तिविशिष्टतया संवेद्यते सदा बुद्धेः स्वस्याऽरमनो वेदन भवतीत्यर्थः ॥ २१ ॥ इत्थं स्वसंविदितं चित्तं सर्वार्थग्रहणसामर्थ्येन सकलव्यवहारनिर्वाहक्षम भवतीत्याह-- ___ द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २२ ॥ द्रष्टा पुरुषस्तेनोपरक्तं तत्संनिधानेन तद्रूपतामिव प्राप्तं दृश्योपरक्तं विषयोपरक्तं गृहीत. विषयाकारपरिणामं यदा भवति तदा तदेव चित्तं सर्वार्थग्रहणसमर्थ भवति । यथा निर्मलं स्फटिकदर्पणाद्यैव प्रतिबिम्बग्रहणसमर्थमेवं रजस्तमोभ्यामनभिभूतं सत्त्वं शुद्धत्वाच्चिच्छायाग्रहणासमर्थं भवति, न पुनरशुद्धत्वाद्रजस्तमसी । तग्न्यग्भूतरजस्तमोरूपमैङ्गितया सत्त्वं निश्चलप्रदीपशिखाकारं सदैवकरूपतया परिणममानं चिच्छायाग्रहणसामर्थ्यादा मोक्ष- प्राप्तेरवतिष्ठते । यथाऽयस्कान्तसंनिधाने लोहस्य चलनमाविर्भवति एवं चिद्रूपपुरुषसंनिधाने सत्त्वस्याभिव्यङ्गयमभिव्यज्यते चैतन्यम् । अत एवास्मिन्दर्शने द्वे चिच्छक्ती नित्योदिताऽ. भिव्यङ्गया च । नित्योदिता चिच्छक्तिः पुरुषस्तत्संनिधानादभिव्यक्तमभिव्यङ्गयचैतन्यं सत्त्वमभिव्यङ्गया चिच्छक्तिः । तदत्यन्तसंनिहितत्वादन्तरङ्गं पुरुषस्य भोग्यतां प्रतिपद्यते । तदेव शान्तब्रह्मवादिभिः सांख्यैः पुरुषस्य परमात्मनोऽधिष्ठेयं कर्मानुरूपं सुखदुःखभोक्तृतया व्यपदिश्यते । यस्वनुद्रिक्तत्वादेकस्यापि गुणस्य कदाचित्कस्यचिदङ्गित्वात्त्रिगुणं प्रतिक्षणं परिणममानं सुखदुःखमोहात्मकमनिर्मलं तत्तस्मिन्कर्मानुरूपे शुद्धे सत्त्वे स्वाकारसमर्पणद्वारेण संवेद्यतामापादयति । तच्छुद्धमाद्यं चित्तसत्यमेकतःप्रतिसंक्रान्तचिच्छायमन्यतोगृहीतविषयाकारेण चित्तेनोपढौकितस्वाकारं चित्संक्रान्तिबलाच्चेतना- यमानं वास्तवचैतन्याभावेऽपि सुखदुःखंभोगमनुभवति । स एव भोगोऽत्यन्तसंनिधा नेन विवेकाग्रहणादभोक्तुरपि पुरुषस्य भोग इति व्यपदिश्यते । अनेनैवाभिप्रायेण १ ख. कान्ततया चिच्छक्तिबुद्धयन्तरवृ' । २ ख. ग. वृत्त्यावेशात्तथा संघद्यते । ३ क. "नं संवेदनं भ । ४ क. निग्र । ५ क.लनि । ६ ख. रजनकं भ° । ७ क, भविष्यती । ८ ख. "तं वि । ९ ग. °क्तं गृ । १० ख. ग. 'व स । ११ ख. ग. जायते । १२ ग. लं स्फाटिकं द. १३ ख. ग. येवं प्र । १४ ख. तदा न्यग्भू । ग. तदनभिभूत । १५ ग. 'मसङ्गि' । १६ क. चित्तवृत्ती। १७ क. रुषे तत्त । १८ ख. ग. 'व्यनत्यभि । १९ ख. ग. व्यङ्गन्यां चिच्छति त । २० ख. व सांख्यय २१ ख. ग. तस्मि । २२ ख. 'कर्मणाऽऽत्मरू' ग. कर्मात्मरू । २३ क. तत्सत्तमा । २४ क. त्वमेवेति प्र' । २५ ग. तय । २६ क. "खस्वरूपभो । ख. वरूपभो । २७ ख. ग. न्तमानिध्येन ।