पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(कैव०पा०४सू०२०-२१] पातञ्जलयोगसूत्राणि । बुद्धेश्व संविदहमित्येवमाकारेण सुखदुःखरूपतया व्यवहारक्षमतापादनम् । एवंविधं च व्यापारद्वयमर्थप्रत्यक्षताकाले न युगपत्कर्तुं शक्यं विरोधात् । न हि विरुद्धयोापारयोर्युगपत्संभवोऽस्ति । अत एकस्मिन्काल उभयस्य स्वरूपस्यार्थस्य • चावधारयितुमशक्यत्वान्न चित्तं स्वप्रकाशमित्युक्तं भवति । किं चैवंविधव्यापारयनिष्पाद्यस्य फलद्वयस्यासंवेदनाद्वहिर्मुखतयैवार्थनिष्ठत्वेन चित्तस्य संवेदनादर्थनिष्ठमेव फलं न स्वनिष्ठमित्यर्थः ॥ १९ ॥ ननु मा भूद्बुद्धेः स्वयं ग्रहणं बुद्ध्यन्तरेण भविष्यतीत्याशङ्कयाऽऽह---- चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्र- सङ्गः स्मृतिसंकरश्च ॥ २० ॥ यदि हि बुद्धिर्बुद्धयन्तरेण वेद्यते तदा साऽपि बुद्धिः स्वयमबुद्धा बुद्धयन्तरं प्रकाशयितुमसमर्थेति तस्या ग्राहकं बुद्धयन्तरं कल्पनीयं तस्याप्यन्यदित्यनवस्थानात्पुरुषायुषेणाप्यर्थ- प्रतीतिर्न स्यात् । न हि प्रतीतीवप्रतीतायामर्थः प्रतीतो भवति । स्मृतिसंकरश्च प्राप्नोति रूपे रसे वा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनां समुत्पत्तेर्बुद्धिजनितैः संस्कारैर्यदा युगपद्बह्वयः स्मृतयः क्रियन्ते तदा बुद्धेरपर्यवसानाद्बुद्धिस्मृतीनां च बहीना युगपदुत्पत्तेः कस्मिन्नर्थे स्मृतिरियमुत्पन्नेति ज्ञातुमशक्यत्वात्स्मृतीनां संकरः स्यात् । इयं रूपस्मृतिरियं रसस्मृतिरिति न ज्ञायेत ॥ २० ॥ ननु बुद्धेः स्वप्रकाशत्वाभावे बुद्धयन्तरेण चासंवेदने कथमयं विषयसंवेदनरूपो व्यवहार इत्याशङ्कय स्वसिद्धान्तमाह- चितेरपतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ २१ ॥ पुरुषश्चिद्रूपत्वाञ्चितिः साऽप्रतिसंक्रमा न विद्यते प्रतिसंक्रमोऽन्यत्र गमनं यस्याः सा तथोक्ता, अन्येनासंकीर्णेति यावत् । यथा गुणा अङ्गीङ्गिभावलक्षणे परिणामेऽङ्गिनं गुणं संक्रामन्ति तद्रूपतामिवाऽऽपद्यन्ते, यथा वा लोके परमाणवः प्रसरन्तो विषयमारूपयन्ति नैवं चितिशक्तिस्तस्याः सर्वदैकरूपतया स्वप्रतिष्ठितत्वेन व्यवस्थितत्वात् । अतस्तत्संनिधाने यदा बुद्धिस्तदाकारतामापद्यते चेतनेवोपजायते, बुद्धिवृत्तिप्रतिसं. १ ग. पदियमि । २ ख. °ण वा सु । ३ क. 'क्षका । ४ ग. दयायत्तस्य । ५ क. थैव स्वनि । ६ क. "स्य स्वयं वे 1७ ग. स्वयं बुद्ध्य । ८ क. यमेव स्वीयभावरूपमज्ञात्वाऽ बुद्ध्वा बुद्ध्य । ९ ख. बोधकं । १० ख. "ताया। ११ ख. ग. "ना यु। १२ ग. करादियं । १३ क. शायते । १४ क. दादिमा । १५ म. वगमनल° । १६ ख. ग. गुणमुपसं । १७क, मारोप।