पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ कैव०पा०४ सू०२२] पातञ्जलयोगसूत्राणि । विन्ध्यवासिनोक्तं " सत्त्वतप्यत्रमेव पुरुषतप्यत्वम् ” इति । अन्यत्रापि प्रतिबिम्बे प्रतिबिम्बमानम्छायासदृशच्छायोद्भवः प्रतिबिम्बशब्देनोच्यते । एवं सत्त्वेऽपि पौरुषेयचिच्छायासदृशेचिदभिव्यक्तिः प्रतिसंक्रान्तिशब्दार्थः । • ननु प्रतिबिम्बनं नाम निर्मलस्य नियतपरिणामस्य निर्मले दृष्टं, यथा मुखस्य दर्पणे । अत्यन्तनिर्मलस्य व्यापकस्यापरिणामिनः पुरुषस्य तस्मादैत्यन्तनिर्मलात्पुरुषादनिर्मले सत्त्वे कथं प्रतिबिम्बनेमुपपद्यते । उच्यते-प्रतिबिम्बनस्य स्वरूपमनवगच्छता भवतेदमभ्यधायि । यैव सत्त्वगताया अभिव्ययायाश्चिच्छक्तेः पुरुषस्य सांनिध्यादभिव्यक्तिः सैव प्रतिबिम्बनमुच्यते । यादृशी पुरुषगता चिच्छक्तिस्तच्छाया तथाऽऽविर्भवति । यदप्युक्तमत्यन्तनिर्मल: पुरुषः कथमनिर्मले सत्वे प्रतिसंक्रामतीति तदप्यनैकान्तिकं, नैर्मल्यादपकृष्ठेऽपि जलादावादित्यादयः प्रतिसंक्रान्ताः समुपलभ्यन्ते । यदप्युक्तमनवच्छिन्नस्य नास्ति प्रतिसंक्रान्तिरिति तदप्ययुक्तं, व्यापकस्याप्याकाशस्य दर्पणादौ प्रतिसंक्रान्तिदर्शनात् । एवं सति न काचिदनुपपत्तिः प्रतिबिम्बदर्शनस्य । ननु सात्त्विकपरिणामरूपे बुद्धिसत्त्वे पुरुषसंनिधानादभिव्यङ्गयायाश्चिन्छक्तेर्बाह्यार्थीकारसंक्रान्तौ पुरुषस्य सुखदुःखरूपो भोग इत्युक्तं तदनुपपन्नम् । देव चित्तसत्त्वं प्रकृतावपरिणतायां कथं संभवति किमर्थश्च तस्याः परिणामः । अथोच्येत पुरुषेस्यार्थोपभोगसंपादनं तथा कर्तव्यम् । अतः पुरुषार्थकर्तव्यतया तस्या युक्त एव परिणामः । तच्चानुपपन्नं, पुरुषार्थकर्तव्यताया एवानुपपत्तेः । पुरुषार्थो मया कर्तव्य इत्येवंविधोऽध्यवसायः पुरुषार्थकर्तव्यतोच्यते । जडायाश्च प्रकृतेः कथं प्रथममवैवविधोऽन्यवसायः । अस्ति चेदध्यवसायः कथं जडत्वम् । अत्रोच्यते--अनुलोमप्रतिलोमलक्षणपरिणामद्वये सहजं शक्तिद्वयमस्ति तदेव पुरुषार्थकर्तोव्यतोच्यते । सा च शक्तिरचेतनाया अपि प्रकृतेः सहजैव । तत्र महदादिमहाभूतपर्यन्तोऽस्या बहिर्मुखतयाऽनुलोमः परिणामः पुनः स्वकारणानुप्रवेशद्वारेणास्मितान्तः परिणामः प्रतिलोमः । इत्थं पुरुषस्याऽऽभोगपरिसमाप्तेः सहजशक्तिद्वयक्षयात्कृतार्था प्रकृतिर्न पुनः परिणाममारभते । एवंविधायां च पुरुषार्थकर्तव्यतायां जडाया अपि प्रकृतेर्न काचिदनुपपत्तिः । ननु यदीदृशी शक्तिः सहजैव प्रधानस्यास्ति तत्किमर्थं मोक्षार्थिभिर्मोक्षाय यत्नः क्रियते, ४ १ ख. ग. सतथात्व' । २ ख. रुषीयम् । म. पीयत्व । ३ क. पि बि । ४ ख बिम्ब । ५ स. ग. °शस्वकीयचिच्छायान्तराभिव्यक्तिः प्रतिबिबश । ६ क. दार्थ इति न । ७ ख. ग. कस्य च. पु । ८ ख. ग. दनिर्मले । ९ ख. °नम् । तस्य । १० ग. मुत्यय १२ ख. ग. °निध्येऽभि'। १२ ख. ग. धनुष"न व्या । १३ ग. नदेवं । १४ ख. ग. थोच्यते पु' । १५ ख. ग. रुषार्थो । १६ ख. कथभेरं । १७ क. । १८ स्व. व्यत. योच्य :