पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५३. [कैव०पा०४२०१६] पातञ्जलयोगसूत्राणि । तस्मान्न चित्तकार्यम् । अथ युगपद्बहुभिः सोऽर्थः क्रियते, तदा बहुभिर्निर्मितस्यार्थस्यैकनिर्मिताद्वैलक्षण्यं स्यात् । यदा तु वैलक्षण्यं नेष्यते तदा कारणभेदे सति कार्यभेदस्याभावे निर्हेतुकमेकरूपं वा जगत्स्यात् । एतदुक्तं भवति-- सत्यमपि भिन्न कारणे यदि कार्यस्याभेदस्तदा समग्रं जगन्नानाविधकारणजन्यमेकरूपं स्यात् । कारणभेदाननुगमा स्वातंत्र्येण निर्हेतुकं वा स्यात् । यद्येवं कथं तेन त्रिगुणात्मनोऽर्थेनैकस्यैव प्रमातुः सुखदुःखमोहमयानि ज्ञानानि न जन्यन्ते । मैवम् । यथाऽस्त्रिगुणस्तथा चित्तमपि त्रिगुणं तस्य चार्थप्रतिभासोत्पत्तौ धर्मादयः सहकारिकारणं तदुद्भवाभिभववशात्कदाचिच्चित्तस्य तेन तेन रूपेणाभिव्यक्तिः । तथा च कामुकस्य संनिहितायां योषिति धर्मसहकृतं चित्तं सत्त्वस्याङ्गितया परिणममानं सुखमयं भवति । तदेवाधर्मसहकारि रजसोऽङ्गितया दुःखरूपं सपनीमात्रस्य भवति । तीव्राधर्मसहकारितया परिणममानं तमसोऽङ्गत्वेन कोपनायाः सपत्न्या मोहमयं भवति । तस्माद्विज्ञानव्यतिरिक्तोऽस्ति बाह्योऽर्थः । तदेवं न विज्ञानार्थ- योस्तादात्म्यं विरोधान्न कार्यकारणभावः । कारणाभेदे सत्यपि कार्यभेदप्रसङ्गादिति ज्ञानाद्वयतिरिक्तत्वमर्थस्य व्यवस्थापितम् ॥ १५ ॥ यद्येवं ज्ञानं चेत्प्रकाशकत्वाद्ग्रहणस्वभावमयश्व प्रकाश्यत्वाद्ग्राह्यस्वभावस्तत्कथं युगपत्सर्वानर्थान् गृह्णाति न स्मरति चेत्याशङ्कय परिहारं वक्तुमाह- तदुपरागापेक्षित्वाञ्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १६ ॥ तस्यार्थस्योपरागादाकारसमर्पणाच्चित्ते बाह्यं वस्तु ज्ञातमज्ञातं च भवति । अयमर्थः- सर्वः पदार्थ आत्मलाभे सामग्रीमपेक्षते । नीलादिज्ञानं चोपजायमानमिन्द्रियप्रणालिकया समागतमर्थोपरागं सहकारिकारणत्वेनापेक्षते । व्यतिरिक्तस्यार्थस्य संबन्धाभावाग्रहीतुमशक्यत्वात् । ततश्च येनैवार्थेनास्य ज्ञानस्य स्वरूपोपरागः कृतस्तमेवार्थं ज्ञानं व्यवहारयोग्यतां नयति । ततश्च सोऽर्थो ज्ञात इत्युच्यते । येन चाऽऽकारो न समर्पित': स न ज्ञातत्वेन व्यवह्रियते । यस्मिंश्चानुभूतेऽर्थे सदृशादिरर्थः संस्कारमुबोधयन्सहका- १ ख. तन्व्यं नि । २ ग. ये नि 1 ३ ग. के स्या' । ४ क. ना चितेनै । ५ क. स. °नि ज°। ६ क. ग. या त । ७ क. 'तिरेकेणास्ति । ८ क. " कि । ९ ख. ग. ज्ञानवस्तुनीस्ता । १० क. दात्म्यवि । ११ ख. ग. रणभेदेऽम° । १२ क. °शकां परिहर्तुम । १३ ख. °दार्थः स्वात्म° । १४ ग. "त्मज्ञानसा । १५ क. भे चित्तं सा । १६ ख. नमन्द्रियकतया । १७ ग. स्वस्वरू। १८ क. ' तज्ज्ञानं । १९ ख. ज्ञानव्य । १. क. जनयति । २१ ग. "तः सोऽज्ञा । २२ क. र्थे सादृश्यादि ।