पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२ - भोजदेवविरचितवृत्तिसमेतानि [ कैव०पा०४२०१३-१५] भजन्ते । तस्माद्धर्माणामेवातीतानागताद्यष्वभेदस्तेनैव रूपेण कार्यकारणभावोऽस्मिन्दर्शने प्रतिपाद्यते । तस्मादपवर्गपर्यन्तमेकमेव चित्तं धर्मितयाऽनुवर्तमानं न निह्रोतुं पार्यते ॥ १२॥ त एते धर्मधर्मिणः किंरूपा इत्यत आह- ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥ य एते धर्मधर्मिणः प्रोक्तास्ते व्यक्तसूक्ष्मभेदेन व्यवस्थितो गुणाः सत्त्वरजस्तमोरूपास्तदात्मानस्तत्स्वभावास्तत्परिणामरूपा इत्यर्थः । यतः सत्त्वरजस्तमोभिः सुखदुःखमोहरूपैः सर्वासां बाह्याभ्यन्तरभेदभिन्नानां भावव्यक्तीनामन्वयानुगमो दृश्यते । यद्यदन्वयि तत्तत्परिणामरूपं दृष्टं यथा घटादयो मृदन्विता मृत्परिणामरूपाः ॥ १३ ॥ यद्येते त्रयो गुणाः सर्वत्र मूलकारणं कथमेको धर्मीति व्यपदेश इत्याशङ्कयाऽऽह --- परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४ ॥ यद्यपि त्रयो गुणास्तथाऽपि तेषामङ्गाङ्गिभावगमनलक्षणो यः परिणामः क्वचित्सत्वमङ्गि क्वचिद्रजः क्वचिच्च तम इत्येवंरूपस्तस्यैकत्वाद्वस्तुनस्त्वमेकत्वमुच्यते । यथेयं पृथिवी, अयं वायुरित्यादि ॥ १४ ॥ ननु च ज्ञानव्यतिरिक्ते सत्यर्थे वस्त्वेकानेकं वा वक्तं युज्यते । यदा विज्ञानमेव वासनावशात्कार्यकारणभावेनावस्थितं तथा तथा प्रतिभाति तदा कथमेतच्छक्यते वक्तुमित्याशङ्कयाऽऽह--- वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः ॥ १५ ॥ तयोर्ज्ञानार्थयोर्विविक्तः पन्था विविक्तो मागः इति यावत् । कथं, वस्तुसाम्ये चित्तभेदात् । समाने वस्तुनि स्यादावुपलभ्यमाने नानाप्रमातृणां चित्तस्य भेदः सुखदुःखमोहरूपतया समुपलभ्यते । तथाहि----एकस्यां रूपलावण्यवत्यां योषिति उपलभ्यमानायां सरागस्य सुखमुत्पद्यते सपन्यास्तु द्वेषः परिव्राजकादेर्धृणेत्येकस्मिन्वस्तुनि नानाविधचित्तोदयात्कथं चित्तकार्यत्वं वस्तुन एकचित्तकार्यत्वे वस्त्वेकरूपतयैवावभासेत । किं च चित्तकार्यत्वे वस्तुनो यदीयस्य चित्तस्य तद्वस्तु कार्यं तस्मिन्नर्थान्तरव्यासक्तेतद्वस्तु न किंचित्स्यात् । भवत्विति चेन्न तदेव कथमन्यैर्बहुभिरुपलभ्येत, उपलभ्यते च । १ क. भेदात्तेनै । २ ग. °ता ये गु । ३ ग. गमा बुझ्यो । यद । ४ क. पामि, 1 ५ ख. पदिश्यत इ।६ क, स्तुतत्व । ७ ग. निशेययो १८ ख. मार्यो भेद इ । ९ क. देश इ । १० क. °ने लावण्यादौ ना। ११ ख. "वता स । १२ ख. ग. यदा य" १३ ख. 'व्यापृते चित्ते ल । १४ ग. में चित्ते त° । १५ ख. ग. तदैव ।