पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[कैव०पा०४२० ११-१२] पातञ्जलयोगसूत्राणि । ५१ स्तीत्यर्थः । कुत इत्यत आह-आशिषो नित्यत्वात् । येयमाशीमहामोहरूपा सदैव सुखसाधनानि मे भूयासुर्मा कदाचन तैर्मे वियोगो भूदिति यः संकल्पविशेषो वासनानां कारणं, तस्य नित्यत्वादनादित्वादित्यर्थः । एतदुक्तं भवति–कारणस्य संनिहितत्वादनुभवसंस्कारादीनां कार्याणां प्रवृत्तिः केन वार्यते, अनुभवसंस्काराद्यनुविद्धं संकोचविकाशधर्मि चित्तं तत्तदभिव्यञ्जक विपाकलाभात्तत्तत्फलरूपतया परिणमत इत्यर्थः ॥ १० ॥ तासामानन्त्याद्धानं कथं संभवतीयाशङ्कय हानोपायमाह- हेतुफलाश्रयालम्बनैः संगृहीतत्वा- देषामभावे तदभावः ॥ ११ ॥ वासनानामनन्तरानुभवो हेतुस्तस्याप्यनुभवस्य रागादयस्तेषामविद्येति साक्षात्पारम्पर्येण हेतुः । फलं शरीरादि स्मृत्यादि च । आश्रयो बुद्धिसत्त्वम् । आलम्बनं यदेवानुभवस्य तदेव वासनानामतस्तैर्हेतुफलाश्रयालम्बनैरनन्तानामपि वासनाना संगृहीतत्वात्ते(दे) षां हेत्वादीनामभावे ज्ञानयोगाभ्यां दग्धबीजत्वे विहिते निर्मलत्वान्न वासनाः प्ररोहन्ति न कार्यमारमन्त इति तासामभावः ॥ ११ ॥ ननु प्रतिक्षणं चित्तस्य नश्वरत्वात्तरतमत्वोपलब्धेर्वासनानां तत्फलानां च कार्यकारण- भावेन युगर्पदभावित्वाद्भेदे कथमेकत्वमित्याशङ्कयैकत्वसमर्थनायाऽऽह- - अतीतानागतं स्वरूंपतोऽस्त्यध्व- भेदोद्धर्माणाम् ॥ १२ ॥ इहात्यन्तमसतां भावानामुत्पत्तिर्न युक्तिमती तेषां सत्त्वसंबन्धायोगात् । न हिं. शशविषाणादीनां क्वचिदपि सत्त्वसंबन्धो दृष्टः । निरुपाये च कार्ये किमुद्दिश्य कारणानि प्रवर्तेरन् । न हि विषयमनालोच्य कश्चित्प्रवर्तते । सतामपि विरोधानाभावसंबन्धोऽस्ति । यत्स्वरूपेण लब्धसत्ताकं तत्कथं निरुपायतामविरूपतां वा भजते न विरुद्धं रूपं स्वीकरोतीत्यर्थः । तस्मासतामभावासंभवादसतां चोत्पत्त्यसंभवात्तैस्तैर्धर्मैर्विपरिणममानो धर्मी सदैवैकरूपतयाऽवतिष्ठते । धर्मास्तु व्यधिकत्वेन त्रैकालिकत्वेन व्यवस्थिताः स्वस्मिन्स्वस्मिन्नध्वनि व्यवस्थिता न स्वरूपं त्यजन्ति । वर्तमानेऽध्वनि व्यवस्थिताः केवलं भोग्यतां क. 'दित्वमित्य । २ क. रानु । ३ क. कला । ४ ग. 'त्यादयश्च । आ । ५ क, "जकल्यत्वे । ख. जवदल्पत्वे । ६ क. स्त्वो। ७ ख. वाद्धे । ८ क. पदावि ९ ख. ग. 'रूपं नास्त्य' । १० व. ग. दात्तद्ध' । ३१ ख. 'स्यतां भ । १२ ग. 'वसक रूपतां भ । १३ क. 'स्तु अधि । ख. स्तु तत्रैव म । १४ क. न त ।