पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कैव०पा०४सू०४-८ पातञ्जलयोगसूत्राणि । ४९ तस्मिन्प्रतिबन्धके क्षीणे प्रकृतयः स्वयमभिमतकार्याय प्रभवन्ति । दृष्टान्तमाह-क्षेत्रिकवत् । यथा क्षेत्रिकः कृषीवल: केदारात्केदारान्तरं जलं निनीषुर्जलप्रतिबन्धकवरणभेदमात्रं करोति, तस्मिन्भिन्ने जलं स्वयमेव प्रसरद्रूपं परिणामं गृह्णाति न तु जलप्रसरणे तस्य कश्चित्प्रयत्न एवं धर्मादेर्बोद्धव्यम् ॥ ३॥ ___यदा साक्षात्कृततत्त्वस्य योगिनो युगपत्कर्मफलभोगायाऽऽत्मीयनिरतिशयविभूत्यनुभावाद्युगपदनेकशरीरनिर्मित्सा जायते तदा कुतस्तानि चित्तानि प्रभवन्तीत्याह--- निर्माणचितान्यस्मितायात्रात् ॥४॥ योगिनः स्वयं निर्मितेषु कायेषु यानि चित्तानि तानि मूलकारणादस्मितामात्रादेव तदिच्छया प्रसरन्ति अग्नेविस्फुलिङ्गा इव युगपत्परिणमन्ति ॥ ४ ॥ ननु बहुनां चित्तानां भिन्नाभिप्रायत्यान्नैककार्यकर्तृत्वं स्यादित्यत आह- ___ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५॥ तेषामनेकेषां चेतसां प्रवृत्तिभेदे व्यापारनानात्व एकं योगिनश्चितं प्रयोजक प्रेरकमधिष्ठातृत्वेन । तेन न भिन्नमतत्वम् । अयमर्थः- यथाऽऽत्मीयशरे मनश्चक्षुःपाण्या- दीनि यथेच्छं प्रेरयति अधिष्ठातृत्वेन तथा कायान्तरेष्वपीति ॥ ५ ॥ जन्मादिप्रभवत्वात्सिद्धीनां चित्तमपि तत्प्रभवं पञ्चविधमेव । ततो जन्मादिप्रभवाच्चित्तात्समाधिप्रभवस्य चित्तस्य वैलक्षण्यमाह- तत्र ध्यानजमनाशयम् ॥ ६ ॥ ध्यानजं समाधिजं यञ्चित्तं तत्पञ्चसु मध्येऽनाशयं कर्मवासन रहितमित्यर्थः ॥ ६॥ यथेतरचित्तेभ्यो योगिनश्चित्तं विलक्षणं क्लेशादिरहितं तथा कर्मापि विलक्षणमित्याह- ___ कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ।। ७ ॥ शुभफलदं कर्म यागादि शुक्लम् । अशुभफलदं ब्रह्महत्यादि कृष्णम् । उभयसंकीर्ण शुक्लकृष्णम् । तत्र शुक्लं कर्म विचक्षणानां दानतपःस्वाध्यायादिमतां पुरुषाणाम् । कृष्णं कर्म नारकिणाम् । शुक्लकृष्णं मनुष्याणाम् । योगिनां तु संन्यासवतां त्रिविधकर्मविपरीतं यत्फलत्यागानुसंधानेनैवानुष्ठानान्न किंचित्फलमारभते ॥ ७ ॥ अस्यैव कर्मणः फलमाह- . ततस्तद्विपाकानुगुणानामेवाभि- व्यक्तिर्वासनानाम् ॥ ८ ॥ " इह हि द्विविधाः कर्मवासनाः स्मृतिमात्रफला जात्यायुर्भोगफलश्च । तत्र जात्यायुर्भो. १७. ग. विड्यापार । २ ख. ग. फलोपभो । ३ क. 'नुभवा । ४ ग. तस्स्यानि । ५ क. 'दित्याह । ६ ख. ग. 'म् । थे । ७ क. अतो। ८ क. दानवानाम् । ९ख. रकाणा।