पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४८ . भोजदेवविरचितवृत्तिसमेतानि- [कैव पा० ४ सू० १-३ ] ___ तत्र याः पूर्वमुक्ताः सिद्धयस्तासां नानाविधजन्मादिकारणप्रतिपादनद्वारेणैव बोधयति । यदि वा या एताः सिद्धयस्ताः सर्वाः पूर्वजन्माभ्यस्तसमाधिबलाजन्मादिनिमित्तमात्रत्वेनाs श्रित्य प्रवर्तन्ते । ततश्चानेकभवसाध्यस्य समाधेर्न क्षतिरस्तीत्याश्वासोत्पादनाय समाधिसिद्धेश्च प्राधान्यख्यापनार्थ कैवल्यप्रयोगार्थं चाऽऽह- जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः॥१॥ काश्चन जन्मनिमित्ता एव सिद्धयः । यथा पक्ष्यादीनामाकाशगमनादयः । यथा वा कपिलमहर्षिप्रभृतीनां जन्मसमनन्तरमेवोपजायमाना ज्ञानादयः सांसिद्धिका गुणाः । ओषधिसिद्धयो यथा-पारदादिरसायनाद्युपयोगात् । मन्त्रसिद्धिर्यथा-मन्त्रजपात्केषांचिदाकाशगमनादि । तपःसिद्धिर्यथा-विश्वामित्रादीनाम् । समाधिसिद्धिः प्राक्प्रतिपादिता । एताः सिद्धयः पूर्वजन्मक्षपितक्लेशानामेवोपजायन्ते । तस्मात्समाधिसिद्धाविवान्यासां सिद्धीनां समाधिरेव जन्मान्तराभ्यस्तः कारणं, मन्त्रादीनि निमित्तमात्राणि ॥ १॥ ___ तनु नन्दीश्वरादिकानां जात्यादिपरिणामोऽस्मिन्नेव जन्मनि दृश्यते तत्कथं जन्मान्तराभ्यस्तस्य समाधेः कारणत्वमुच्यत इत्याशङ्कयाऽऽह -- जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २ ॥ योऽयमिहैव जन्मनि नन्दीश्वरादीनां जात्यादिपरिणामः स प्रकृत्यापूरात्, पाश्चात्या एव हि प्रकृतयोऽमुस्मिञ्जन्मनि विकारानापूरयन्ति जात्यन्तराकारेण परिणामयन्ति ॥ २ ॥ ननु धर्माधर्मादयस्तत्र क्रियमाणा उपलभ्यन्ते तत्कथं प्रकृतीनामापूरकत्वमित्याह-- निमित्तमप्रयोजकं प्रकृतीनां वरण- भेदस्तु ततः क्षेत्रिकवत् ॥ ३ ॥ निमित्तं धर्मादि तत्प्रकृतीनामर्थान्तरपरिणामे न प्रयोजकम् । नहि कार्येण कारणं प्रवर्तते । कुत्र तर्हि तस्य धर्मादेव्यापार इत्याह---वरणभेदस्तु ततः क्षेत्रिकवत् । ततस्तस्मादनुष्ठीयमानाद्धर्माद्वरणमावरकमधर्मादि तस्यैव विरोधित्वाद्भेदः क्षयः क्रियते । १ ख. धजात्यादि । २ ख. यावत्यःसि । ३ ख. सति विश्वा । ४ क. 'वल्यो. पयोगार्थमाह । ५ क. नादिः । त । ६ ख. ग. सिद्धिर्यथा पा । ७ ख. ग. "न्मनि । ८ क. °थं जन्मनि ज । ९ ख. योऽस्मिों '। १० क. °कारेणाऽऽपू । ११ ख. °न्ति नाम रूपजात्यादिवारेण परिगयन्ति । १२ ज. जात्यदिवारे । १३ क. परिणमन्ति । १४ ग. "नु च धर्माद । १५ ख. 'रकारणत्व" ! ग. "रणे कारणत्व । १६ ग. वयते ।