पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व०पा०४-०१] पातञ्जलयोगसूत्राणि । ते । निःशेषनानावस्थापरिणतव्यात्मकभावग्रहणे नास्य क्रमो विद्यत इति अक्रमम् । करतलामलकचद्युमपत्पश्यतीत्यर्थः ।। ५४ ॥ अस्माच्च विवेकजात्तारकाख्याज्ञानात्किं भवतीत्याह- सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥ ५५ ॥ सत्त्वपुरुषायुक्तलक्षणो तयोः शुद्धिसाम्ये कैवल्यं सत्त्वस्य सर्वकर्तृत्वाभिमाननिवृत्त्या प्रकारणेऽनुप्रवेशः शुद्धिः, पुरुषस्य शुद्धिरूपचरितभोगाभाव इति द्वयोः समानायां शुद्धौ रुपस्य कैवल्यमुत्पद्यते मोक्षो भवतीत्यर्थः । तदेवमन्तरङ्गं योगाङ्गत्रयमभिधाय तस्य च नियमसंज्ञां कृत्वा संयमस्य च विषयप्रदर्शनार्थं परिणामत्रयमुपपाद्य संयमबलोत्पद्यमानाः पूर्वा- उपरान्तमध्यभवाः सिद्धीरुपदर्श्य समाध्याश्वासोत्पत्तये बाह्या भुवनज्ञानादिरूपा आभ्यतराश्च कायव्यूहज्ञानादिरूपाः प्रदर्श्य समाध्युपयोगायेन्द्रियप्राणजयादिपूर्विकाः परमपुरुषार्थसिद्धये यथाक्रममवस्थासहितभूतजयेन्द्रियजयसत्त्वजयोद्भवोश्च व्याख्याय विवेकज्ञानोत्पत्तये तांस्तानुपायानुपन्यस्य तारकस्य सर्वसमाध्यवस्थापर्यन्तभवस्य स्वरूपमभिधाय तत्समापत्तेः कृताधिकारस्य चित्तसत्वस्य स्वकारणेऽनुप्रवेशात्कैवल्यमुत्पद्यत इत्यभिहितमिति नेर्णितो विभूतिपादस्तृतीयः ।। ५५ ॥ इति श्रीभोजदेवविरचितायां राजमार्तण्डाभिधायां पात- ञ्जलवृतौ विभूतिपादस्तुतीयः ।। ३ ।। अथ भोजदेवविरचितवृत्तिसहितयोगसूत्रेषु ___ चतुर्थः कैवल्यपादः। यदाज्ञयैव कैवल्यं विनोपायैः प्रजायते । तमेकमजमीशानं चिदानन्दमयं स्तुमः ॥ १ ॥ इदानीं विप्रतिपत्तिसमुत्थभ्रान्तिनिराकरणेन युक्त्या कैवल्यस्वरूपज्ञानाय कैवल्यपादोऽ. यमारभ्यते। १ क. तदिव्येक ९ ख. ग. यन्तिाप ! ३ क. °माध्यभ्यासोपत्त । ४ क. काः मदर्थ प । ५ ख. वाश्चाऽऽख्या । ग. या व्या। ६ क. नोपपत्त । ७ ग. ये तातामुपा। - ग. "स्य रू । ९ ख. 'रूपावस्थापना । १. ग. शांपना ।