पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ भोजदेवविरचितवृत्तिसमेतानि- विभू०पा० ३सू०५२-५४ अस्यामेव फलभूतायां विकल्यातौ पूर्वोक्तसंयमव्यतिरिक्तमुपायान्तरमाह -- क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२ ॥ क्षणः सर्वान्त्यः कालावययो यस्य कलाः प्रभवितुं न शक्यन्ते । तथाविधानां कालक्षणानां यः क्रमः पौर्वापर्येण परिणामस्तत्र संयमात्प्रागुक्तं विवेकजं ज्ञानमुत्पद्यते । अयमर्थः—अयं कालक्षणोऽमुष्मात्कात्लक्षणादुत्तरोऽयमस्मात्पूर्व इत्येवंविधे क्रमे कृतसंयमस्यात्यन्तसूक्ष्मेऽपि क्षणक्रमे यदा भवति साक्षात्कारस्तदाऽन्यदपि सूक्ष्मं महदादि साक्षात्करोतीति विवेकज्ञानोत्पत्तिः ॥ ५२ ।। अस्यैव संयमस्य विषयविवेकोपेक्षेपणायाऽऽह--- जातिलक्षणदेशैरन्यतानवच्छेदा- त्तुल्ययोस्ततः प्रतिपत्तिः।। ५३॥ पदार्थानां भेदहेतवो जातिलक्षणदेशा भवन्ति । क्वचिद्भेदहेतुर्जातिः , यथा गौरियं महिषोऽयमिति । जात्या तुल्ययोलक्षणं भेदहेतुः, इयं कर्बुरेयमरुणेति । जात्या लक्षणेन चाभिन्नयोर्भेदहेतुर्देशो दृष्टः, यथा तु परिमाणयोमलंकयोर्भिन्नदेशस्थितयोः । यत्र पुनर्भेदोऽवधारयितुं न शक्यते यथैकदेशस्थितयोः शुक्लयोः पार्थिवयोः परमाण्वोस्तथाविधे विषये भेदाय कृतसंयमस्य भेदेन ज्ञानमुत्पद्यते तदा तदभ्यासासूक्ष्माण्यपि तत्त्वानि भेदेन प्रतिपद्यते । एतदुक्तं भवति--- यत्र केनचिदुपायेन भेदो नावधारयितुं शक्यस्तत्र संयमाद्भवत्येव भेदप्रतिपत्तिः ।। ५३ ।। सूक्ष्माणां तत्त्वानामुक्तस्य विवेकजन्यज्ञानस्य संज्ञाविषयस्वाभाव्यं व्याख्यातुमाह - तारकं सर्वविषयं सर्वथाविषयमक्रमं । चेति विवेकजं ज्ञानम् ॥ ५४ ॥ उक्तसंयमबलादन्त्यायां भूमिकायामुत्पन्नं ज्ञानं तारयत्यगाधात्संसारसागराद्योगिनमित्यावरिक्या संज्ञया तारकमित्युच्यते । अस्य विषयमाह--सर्व विषयमिति । सर्वाणि तत्त्वांनि महदानि विषयो यस्येति सर्वविषयम् । स्वभावश्चास्य सर्वथाविषयत्वम् । सर्वाभिरवस्थाभिः स्थूलसूक्ष्मादिभेदेन तैस्तैः परिणामः सर्वेण प्रकारेणावस्थितानि तत्त्वानि विषयो यत्येति सर्वथाविषयम् । स्वभावान्तरमाह-अक्रमं 93 १ ख. ग. 'पक्रम । २ क. ग. व ज्ञा' । ३ व. म. व ला प्रविभक्तुं न शक्यते त । ४ क. का'। ५ ग. 'पयो माह । ६ क. 'ल्यप्रमा । ७ ख. 'मुपजायते । ग. 'मुपजायते तद । ८ क. ख. 'यन्ते । ए° । ९ ख. “प्रतीतिः ॥ ५३ ॥ १० ख. 'कवि। ११ क. संझा वि । १२ ह. ग. षयं स्वा । १३ क. ग. 'मित्यन्न । १४ ख. ग. °म् । सर्वा ।