एतत् पृष्ठम् परिष्कृतम् अस्ति
वेभू०पा०३सू०४९-५१]
।
पातञ्जलयोगसूत्राणि
त्तिलाभो विकरणभावः । सर्ववशित्वं प्रधानजयः । एताः सिद्धयो जितेन्द्रियस्य प्रादु- विन्ति । ताश्चास्मिञशास्त्रे मधुप्रतीका इत्युच्यन्ते । यथा मधुन एकदेशोऽपि स्वदत एवं त्येकमेताः सिद्धयः स्वदन्त इति मधुप्रतीकाः ॥ ४८ ॥ . इन्द्रियजयमभिधायान्तःकरणजयमाह-
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावा.
धिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ४९ ॥
तस्मीञद्धे साचिके परिणामे कृतसंयमस्य या सत्त्वपुरुषयोरुत्पद्यते विवेकख्याति- र्गुणानां कर्तत्वाभिमानशिथिलीभावरूपा तन्माहात्म्यात्तत्रैव स्थितस्य योगिनः सर्वभा- वाधिष्ठातत्वं सर्वज्ञातत्वं च समधिर्भवति । सर्वेषां गुणपरिणामानां भावानां स्त्रास्मिवदा- क्रमणं सर्वभावाधिष्ठातत्वं, तेषामेव च शान्तोदिताव्यपदेश्यधर्मित्वेनावस्थितानां यथा- वद्विवेकज्ञानं सर्वज्ञातृत्वम् । एषां चास्मिञ्शास्त्रे परस्यां वशीकारसंज्ञायां प्राप्तायां विशोका नाम सिद्धिरित्युच्यते ॥ ४९ ॥ क्रमेण भूमिकान्तरमाह-
तद्वैराग्यादपि दोषवीजक्षये कैवल्यम् ॥ ५० ॥
एतस्यामपि विशोकायां सिद्धौ यदा वैराग्यमुत्पद्यते योगिनस्तदा तस्मादोषाणां रागा- दीनां यद्वीजमविद्यादयस्तस्य क्षये निर्मूलने कैवल्यमात्यन्तिकी दुःखनिवृत्तिः पुरुषस्य गुणानामधिकारपरिसमाप्तो स्वरूपप्रतिष्ठत्वम् ॥ ५० ॥ अस्मिन्नेव समाधौ स्थित्युपायमाह-
{bold
|स्वाम्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ५१ ॥
चत्वारो योगिनो भवन्ति । तत्राभ्यासवान्प्रवृत्तमात्रज्योतिः प्रथमः । ऋतंभरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः । अतिक्रान्तभावनीयश्चतुर्थः । तत्र चतुर्थस्य(श्च) समाधेः प्राप्तसप्तविधप्रान्तभूमिप्रज्ञो भवति । ऋतंभरप्रज्ञस्य द्वितीयां मधुमतीसंज्ञं भूमिकां साक्षात्कुर्वतः स्वामिनो देवा उपनिमन्त्रयितारो भवन्ति । दिव्यस्त्रीरसायनादिकं डौक- यन्ति । तस्मिन्नुपनिमन्त्रणे नानेन सङ्गः कर्तव्यः । नापि स्मयः। सङ्गकरणे पुनर्विषय- भोगे पतति । स्मयकरणे कृतकृत्यमात्मानं मन्यमानो न समाधावुःसहते । अतः सङ्गस्मय- योस्तेन वर्जनं कर्तव्यम् ॥ ५१ ॥
- १ क. 'स्मिन्बुद्धेः सा । २ क. "ते साऽन्यताख्यातिः । गुणा 1 ३ क. पात्तन्मा । ख. पात्तत्तादात्मया । ४ ग. 'माधिर्म । ५ क. 'पनिष्ठ । ६ क. ग. 'मः । कृन्तान्तर । ५ क. 'धभूमिप्रत्ययस्यान्त्यां म । ग. भूमिप्रशस्यानयां म । ८ ख. 'ति । नत्र ऋ। क. नीवसना