पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४४ . भोजदेवविरचितवृत्तिसमेतानि- [विभू०पा० ३२०४५-४८] स्थूलरूपे संयम विधाय तदनु स्वरूप इत्येवं क्रमेण तस्य कृतसंयमस्य संकल्पानुविधायिन्यो वासानुसारिण्य 'इव गावो भूतप्रकृतयो भवन्ति ॥ ४ ४ ॥ तस्यैव भूतजयस्य फलमाह--- ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ॥ ४५ ॥ अणिमा परमाणुरूपतापत्तिः । महिमा महत्त्वम् । लघिमा तलपिण्डवल्लघुत्वप्राप्तिः । गरिमा गुरुत्वम् । प्राप्तिरङ्गुल्यग्रेण चन्द्रादिस्पर्शनशक्तिः । प्राकाम्यमिच्छानभिघातः । शरीरान्तःकरणेश्वरत्वमीशित्वम् । सर्वत्र प्रभविष्णुता वशित्वं, सर्वाण्यैव भूतानि अनुगामित्वात्तदुक्तं नातिकामन्ति । यत्र कामावसायो यस्मिन्विषयेऽस्य काम इच्छा भवति त (य)स्मिन्विषये योगिनो व्यवसायो भवति तं विषयं स्वीकारद्वारेणाभिलाषसमाप्तिपर्यन्तं नयन्तीत्यर्थः । त एतेऽणिमाद्याः समाध्युपयोगिनो भूतजयाद्योगिनः प्रादुर्भवन्ति । यथा परमाणुत्वं प्राप्तो वज्रादीनामप्यन्तः प्रविशति । एवं सर्वत्र योज्यम् । त एतेऽणिमादयोऽष्टौ गुणा महासिद्धय उच्यन्ते । कायसंपद्वक्ष्यमाणा तां प्राप्नोति । तद्धर्मानभिघातश्च तस्य कायस्य ये धर्मा रूपादयस्तेषामनभिघातो नाशो न कुतश्चिद्भवति । नास्य रूपमग्निर्दहति न वायुः शोषयतीत्यादि योज्यम् ॥ १५॥ कायसंपदमाह- रूपलावण्यबलव्रजसंहननत्वानि कायसंपत् ॥ ४६॥ रूपलावण्यबलानि प्रसिद्धानि । वज्रसंहननत्वं वज्रत्वस्कठिना संहतिरस्य शरीरे भवतीत्यर्थः । इति कायस्याऽऽविर्भूतगुणसंपत् ॥ ४६ ॥ एवं भूतजयमभिधाय प्राप्तभूमिकाविशेषस्येन्द्रियजयमाह-- ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ४७ ॥ ग्रहणमिन्द्रियाणां विषयाभिमुखी वृत्तिः । स्वरूपं सामान्येन प्रकाशकत्वम् । अस्मिताऽहंकारानुगमः । अन्वयार्थवत्वे पूर्ववत् । एतेषामिन्द्रियाणामवस्थापञ्चके पूर्ववत्संयमं कृत्वेन्द्रियजयी भवति ॥ ४७ ॥ तस्य फलमाह- ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥. शरीरस्य मनोवदनुत्तमगतिलाभो मनोजवित्वम् । कायनिरपेक्षाणामिन्द्रियाणां १ क. सूक्ष्मरूप । २ क. 'स्पार्थवि १३ क. भवन्तीत्यर्थः । १ . 'मोऽध्य । ५ ख. यतीत्य । ६ ग. "गिभू । ७ ख. 'नत्वादीनि । ग. ननानि । ८ स. २. ननं । ९ ग. मिकस्य । १० क. 'कायामिन्द्रि । ११ ख. ग. 'शत्व'