पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४३ [विभू०पा०३सू०४३-४४] पातञ्जलयोगसूत्राणि । संयमं विधाय लघुनि तूलादौ समापत्तिं तन्मयीभावलक्षणां च विधाय प्राप्तातिलघुभावो योगी प्रथमं यथारुचि जले संचरन्क्रमेणोर्णनाभतन्तुजालेन संचरमाण आदित्यरश्मिभिश्च विहरन्यथेष्टमाकाशेन गच्छति ॥ ४२ ॥ सिद्धयन्तरमाह- बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः॥४३॥ शरीराद्बहिर्वा मनसः शरीरनैरीक्ष्येण वृत्तिः सा महाविदेहा नाम विगतशरीराहकारदार्ढ्यद्वारेणोच्यते । ततस्तस्यां कृतात्संयमात्प्रकाशावरणक्षयः सात्त्विकस्य चित्तस्य यः प्रकाशस्तस्य यदावरणं क्लेशकर्मादि तस्य क्षयः प्रविलयो भवति । अयमर्थः-शरीराहंकारे सति या मनसो बहिर्वृत्तिः सा कल्पितेत्युच्यते । यदा पुनः शरीराहकारभावं परिःयज्य स्वातन्त्र्येण मनसो वृत्तिः साऽकल्पिता, तस्यां संयमायोगिनः सर्वे चित्तमलाः क्षीयन्ते॥४३॥ तदेवं पूर्वान्तविषयाः परान्तविषया मध्यभवाश्च सिद्धीः प्रतिपाद्यानन्तर भुवनज्ञानादिरूपा बाह्याः कायव्यहादिरूपा अभ्यन्तराः परिकर्मनिष्पन्नभूताश्च मैत्र्यादिषु बलानीत्येवमाद्याः समाध्युपयोगिनीश्चान्तःकरणबहिःकरणलक्षणेन्द्रियभवाः प्राणादिवायभवाश्च सिद्धी श्चित्तदाढ्यसमाधौ समाश्वासोत्पत्तये प्रतिपाद्येदानीं स्वदर्शनोपयोगिसबीजनिर्बीजसमाधिसिद्धये विविधोपायप्रदर्शनायाऽऽह- स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ।। ४४ ॥ . ., पञ्चानां पृथिव्यादीनां भूतानां ये पञ्चावस्थाविशेषरूपा धर्माः स्थूलत्वादयस्तत्र कृतसंयमस्य भूतजयो भवति । भूतानि अस्य वश्यानि भवन्तीत्यर्थः । तथाहि-भूतानां परिदृश्यमानं विशिष्टाकारवस्थूलरूपं, स्वरूपं चैषां यथाक्रमं कार्यं गन्धस्नेहोष्णताप्रेरणावकाशदानलक्षणं, सूक्ष्मं च यथाक्रमं भूतानां करणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि । अन्वयिनो गुणाः प्रकाशप्रवृत्तिस्थितिरूपतया सर्वत्रैवान्वयित्येन “समुपलभ्यन्ते । अर्थवत्वं तेष्वेव गुणेषु भोगापवर्गसंपादनाख्या शक्तिः । तदेवं भूतेषु पञ्चसूक्तलक्षणावस्थाभिन्नेषु प्रत्यवस्थं संयमं कुर्वन्योगी भूतजयी भवति । तद्यथा--प्रथमं ग. पत्तिस्तन्मयीभावलक्षणा तां च.। २ क. गताका कार्य गोप्य । ३ क. "रादई । ४ ख. 'पन्दभू । ग. 'पन्द९०° । ५ ख. कार स्थूलरूपं चै । ६ ग. वद्रूपं स्थूल २५ । ७ क. पदेन । ८ ख. ग. 'नित ! ९ ख. 'सक्ष्यन्ते । १० क. "कधर्मल । ११ ग. स्थावच्छिन्ने । १२ ग. भून्मयो ।